वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 136, कुल 490 में से
संदर्भ में पढ़ें१३८ वीरमित्रोदयस्य राजनीतिप्रकाशे दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ इति । महाभारते, पुरोहितप्रधानो हि राजा हितमवाप्नुयात् । सदाऽऽचरति यो धर्मं नृपो ब्राह्मणदेशितम् ॥ तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति । तस्य धर्मस्य सिद्धस्य भागी राज्ञः पुरोहितः ॥ इति । ब्रह्मपुराणे, द्वौ लक्षहोमौ कुर्वीत तथा संवत्सरं प्रति । एकं च कोटिहोमं च यत्नात्सर्वाभयप्रदम् ॥ अथर्ववेदविहितं समन्त्री सपुरोहितः । नित्यान्याहार्यकाम्यानि तथा नैमित्तिकानि च ॥ ग्रहणे सूर्यशशिनोर्भूकम्पोत्पातदर्शने । तत्क्षणे च महाशान्तिः कर्त्तव्याऽनिष्टनाशिनी ॥ इति । याज्ञवल्क्यः, श्रौतस्मार्त्तक्रियाहेतोर्वृणुयादृर्त्विजस्तथा । यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥ भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ इति । राजेत्यनुवृत्तौ- शङ्खलिखितौ, दद्याद्दानमर्चयित्वा ब्राह्मणाय, निमित्तपूर्वं शेषेभ्यः, कृपणातुरानाथव्यङ्गविधवावालवृद्धानौषधावसथाशनाच्छादनै- र्बिभृयात् । इति । शेषेभ्यः क्षत्रियादिभ्यः । निमित्तपूर्वं सेवाद्युपाधिना । राजधर्मेषु-