वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 140, कुल 490 में से
संदर्भ में पढ़ें१४२ वीरमित्रोदयस्य राजनीतिप्रकाशे र्मानुष्ठानेन राज उपकुर्युरित्युक्तम् । तथा चोपकुर्वतामेव क्षत्रि- यादीनां त्रयाणां वर्णानां राज्ञोऽवश्यभरणीयत्वं, न त्वनुपकुर्व- ताम् । पूर्वोदाहृतगौतमवाक्ये निरुत्साहांश्च ब्राह्मणानित्यनेना- नुपकुर्वतामपि जातिमात्रब्राह्मणानामवश्यभरणीयत्वे निरुत्साहत्वं हेतुरुपन्यस्तः । अन्यथा हि अनुपकुर्वतामपि स्वराष्ट्रवर्त्तिनां सर्वेषामवश्यभरणीयत्वेनैतेषामभरणे राज्ञो महान् दोषोऽश- क्यानुष्ठानता च स्यात् । हरदत्तस्तु पूर्वोदाहृतं गौतमवाक्यमेवं व्याख्यातवान् । बिभृयात् श्रोत्रियान् ब्राह्मणान्, श्रोत्रिया अधीतवेदाः तान्, ब्राह्मणानन्नादिदानेन बिभृयात् । निरुत्साहांश्चाब्रा- ह्मणान्, जीवनार्थं यत्नं कर्तुमसमर्थान् अब्राह्मणान् क्षत्रियादीनपि बिभृयात्, किं पुनर्ब्राह्मणान् । पूर्वसूत्रे तु अ- र्जने समर्थानपि श्रोत्रियान् स्वयमाहूय बिभृयादिति । अकरांश्च, येभ्यः पूर्वैः करो न गृहीतस्तान् अकरान्, बिभृयात्, तेभ्यः स्वयं करं नोत्पादयेत् । उपकुर्वाणांश्च, अधीयाना ब्रह्मचारिण उपकुर्वाणास्तांश्च बिभृयादन्नादिदानेन, यद्यर्थिनः, स्वयंजी- वनवतश्च करादिव्यावर्त्तनेन । उपकुर्वाणा, लोकोपकारिणो वैद्यादय इति केचित् । यमः, अभेद्यमच्छेद्यमनादिमक्षयं निधिं पुराणं पालयन्ति ये । महीपतिस्तानभिपूज्य वै द्विजान् भवेदजेयो दिवि देवराडिव ॥ पुराणं निधिं, वेदरूपम् । शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा । अपि वज्रसहस्रेण ब्राह्मणाशीः सुदुर्भिदा ॥ इति । तथा,