वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 120, कुल 490 में से
संदर्भ में पढ़ें१२२ वीरमित्रोदयस्य राजनीतिप्रकाशे वर्णाश्रमपदे सङ्करपाखण्डादीनामप्युपलक्षके । सङ्कराणां वर्णमूलत्वात्, पाखण्डानामाश्रममूलत्वात् । तथा च- विष्णुपुराणे, यस्तु सन्त्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राडपि मैत्रेय स नग्नः पापकृन्नरः ॥ इति । स्वे स्वे धर्म इति वीप्सया सामयिकधर्माणामपि सङ्ग्रहः । देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम् । समता व्यवहारेषु स्वयं चैवान्ववेक्षणम् ॥ व्यवहाराणामिति शेषः । तदुक्तम्- याज्ञवल्क्येन, व्यवहारान्नृपः पश्येत्-इति । राज्ञां धर्मं परं विद्यात्तथा वै चरदृष्टिता । स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम् ॥ यज्ञदानक्रिया चैव सङ्ग्रामे चापलायनम् । कामादीनामाभ्यन्तराणां स्वविषयवासित्वेनाऽऽभ्यन्तरा- णां भृत्यादीनां च जय उक्तः— तत्रैव, कामः क्रोधो मदो मानो लोभो हर्षस्तथैव च । जेतव्यो रिपुषड्वर्ग आन्तरः पृथिवीक्षिता ॥ स्वस्वविषये व्यवस्थापनं जयः । एतेषां विजयं कृत्वा कार्यों भृत्यजयस्तथा । कृत्वा भृत्यजयं राजा पौरान् जानपदान् जयेत् ॥ कृत्वा च विजयं तेषां शत्रून् बाह्यांस्ततो जयेत् । अन्तिमो जयः पराभवः । बाह्यास्त्रिविधा उक्ताः— तत्रैव,