वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 147, कुल 490 में से
संदर्भ में पढ़ेंप्रतिषिद्धा राजधर्माः । १४९ क्पारुष्यम्, आक्रोशादि। दण्डपारुष्यम्, अल्पापराधेऽपि बहुला- र्थग्रहणं, शारीरदण्डो वा । व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ अधोऽधो व्रजति, नरकं प्रतिपद्यत इत्यर्थः । नरकाणां पा- ताल एव वर्णितत्वात् । विष्णुधर्मोत्तरे— न गाहेज्जनसम्बाधं न चाज्ञातं जलाशयम् । नापरीक्षितपूर्वं तु पुरुषैराप्तकारिभिः ॥ नारोहेत्कुञ्जरं व्यालं नादान्तं तुरगं तथा । व्यालम्, दुष्टम् । नाविज्ञातां स्त्रियं गच्छेन्नैव चाशुष्कवाससम् । अशुष्कवाससम्, आर्द्रवाससं, रजस्वलामित्यर्थः । तथा, नारोहेद्विषमां नावं नापरीक्षितनाविकाम् । तथा, देवतासु न वोच्छिन्द्यात्पूर्वदायान् कथञ्चन । प्राक्स्थितं च न चोच्छिन्द्यान्न चोच्छिन्द्यात्तथा जनात् ॥ उच्छेत्ता नरकं याति सह पूर्वैः पितामहैः । अपि स्वल्पं न हर्तव्यं देवद्रव्यं विजानता ॥ स्वल्पस्यापि फलं घोरं यस्माज्जन्मान्तरे भवेत् । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ देवद्रव्यापहरणान्नरकं प्रतिपद्यते । सन्तीह देवताः सौम्याः सन्त्युग्राश्चापि भारत ॥