वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 148, कुल 490 में से
संदर्भ में पढ़ें१६० वीरमित्रोदयस्य राजनीतिप्रकाशे दर्शयन्ति रुषं सौम्याः राज्यभ्रंशादिभिर्नृणाम् । अस्मिंल्लोके रुषं क्रूरा नैव कुर्वन्ति देवताः ॥ तासां वित्तापहरणाद्राजा नरकमृच्छति । पूर्वैः पितामहैः सार्द्धं प्रागुक्तं कालमेव तु ॥ देवद्रव्यापहरणं नैव जातु भवेद् वृथा । सर्वस्वरहितान् कृत्वा देवद्रव्यापहारिणः ॥ अङ्कयित्वा द्विजश्रेष्ठ स्वराष्ट्राद्विप्रवासयेत् । त्रैविद्या वणिजो वैश्या लिङ्गिनो देवपालकाः ॥ तथा तत्प्रतिबद्धाश्च न कुर्युः कलहं मिथः । तेषां तन्नायकः स्वामी निग्रहानुग्रहे भवेत् ॥ रागद्वेषवियुक्तस्तु विवास्यश्चान्यथा भवेत् । तथा तत्रैव, ब्रह्मस्वं नैव चाऽऽदद्याद्ब्रह्मस्वं पालयेत्तथा । ब्रह्मस्वहरणाद्राम नरके पच्यते नरः ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं सप्र पूरुषान् ॥ ब्रह्मस्वं प्रणयाद् भुक्तं हिनस्त्यासप्तमं कुलम् । द्रोहाद् भुक्तं तदेवेह कुलानां पातयेच्छतम् ॥ सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलम् । हरन्नरकमाप्नोति यावदाभूतसम्प्लवम् ॥ अत्र सुवर्णशब्दः परिमाणविशिष्टसुवर्णवचनः । दृष्ट्वाऽविद्यं दुराचारं ब्राह्मणं न द्विषेत्क्वचित् ॥ ब्राह्मणानां परीवादान्नाशमाप्नोति मानवः । न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ॥ नैवास्ति ब्राह्मणवधात्पापं गुरुतरं क्वचित् ।