वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 165, कुल 490 में से
संदर्भ में पढ़ेंमणयो मन्त्राश्चागदाः प्रसिद्धास्तत्सङ्ग्रहं च कुर्यात् । एव- मादिभिर्निर्विषमन्नं निर्णीय भुञ्जीत । तथा तत्रैव, भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेत्ततः । शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत् ॥ इति । मनुः, भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥ अलङ्कृतस्तथा पश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ इति । याज्ञवल्क्यः, हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत्ततः । पश्येच्चारांस्तथा दूतान् प्रेषयेन्मन्त्रिसङ्गतः ॥ हिरण्यं हिरण्यादिधनम् । व्यापृतानीतं, व्यापृतैराकरादि- द्रव्यार्जनस्थानेषु नियुक्तैरानीतम् । ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् । गीतैर्नृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥ इति । भुक्त्वा यथेच्छमङ्गनाभिः सह क्रीडेत, कार्यवशान्मन्त्रिभिर्वा समागतो भवेत् । बलानां हस्त्यश्वादीनाम् । सेनान्या चमूपतिना सह बलविषयमर्थं च चिन्तयेत् । सन्ध्यां, सायंसन्ध्याम् । गीतं नृत्यं च श्रुत्वा भुक्त्वा वेदं पठेत् । अत्र विशेषान्तरमाह — मनुः, सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।