वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 164, कुल 490 में से
संदर्भ में पढ़ें१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे पूर्ववत्, “ततः कृत्वा मणिं हेम्ना” इत्यादिप्रकारेण । मूषिका जीरका वापि हस्ते बद्धा विषापहा । हरेणुमांसीमञ्जिष्ठारजनी मधुकं मधु ॥ अक्षत्वक्सुरसा चापि श्वपित्तं पूर्ववन्मणिः । वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ॥ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः । त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ॥ सूक्ष्मैला त्रिवृतापत्रविडङ्गानीन्द्रवारुणी । मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत् ॥ तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा । विषं मुक्तं जरां याति निर्विषेऽपि न दोषभाक् ॥ सक्तुसर्जरसोशीरसर्पषापत्रवालकैः । सवेल्लारुष्करखुरैः कुसुमैरर्जुनस्य च ॥ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटाः सविषा दर्दुरा न सरीसृपाः ॥ न कृत्याः कार्मणा याश्च धूपोऽयं यत्र दह्यते । कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ॥ मूर्वैलवालुसुरसानाकुलीतन्दुलीयकैः । क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्वृतः ॥ रोचनापत्रनैपालीकुङ्कुमैस्तिलकं वहन् । विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः ॥ चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बकैः । दिग्धं निर्विषतामेति गात्रं सर्वविपार्दितम् ॥ शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव च । गोमूत्रपिष्टं ह्यगदः सर्वकर्मकरः स्मृतः ॥ इति ।