वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 163, कुल 490 में से
संदर्भ में पढ़ेंराज्ञो दिनकृत्यम् । १६५ विष्णुधर्मोत्तरे, राम उवाच । रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ पुष्कर उवाच । बिल्वाढकीयवक्षारपाटलावाल्हिकोषणाः । श्रीपर्णीशल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ॥ सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् । यवसेन्धनपानीयवस्त्रशय्यासनौदनम् ॥ कवचाभरणच्छत्रवालव्यजनमेव च । यवसं तृणमर्जुनम्, तदादि वेश्मान्तं बिल्वादिकार्थैः प्रोक्षि- तं सद्यो निर्विषं भवति । शेलूपाटलयतिविषाशिग्रुगोभीपुनर्नवाः । समङ्गावृक्षमूलत्वकपित्थं वृषशोणितम् ॥ सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम् । लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गासहरेणुकाः ॥ सपथ्याह्वा मधुयुता बभ्रुपित्तेन कल्किताः । निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले ॥ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टः सविषस्तेन सद्यो भवति निर्विषः ॥ मनोव्हाऽऽलक्ष्मीपुष्पस्त्वङ्गङ्गाश्वेतसर्षपाः । कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥ शुनो गोः कपिलायाश्च सौम्याख्योऽयं परोऽगदः । विषजित्परमः कार्यो मणिरत्नं च पूर्ववत् ॥