भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

राज्ञो दिनकृत्यम् । १६५ विष्णुधर्मोत्तरे, राम उवाच । रक्षोघ्नानि विषघ्नानि यानि कार्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्मभृतां वर ॥ पुष्कर उवाच । बिल्वाढकीयवक्षारपाटलावाल्हिकोषणाः । श्रीपर्णीशल्लकीयुक्ता निष्क्वाथः प्रोक्षणं परम् ॥ सविषं प्रोक्षितं तेन सद्यो भवति निर्विषम् । यवसेन्धनपानीयवस्त्रशय्यासनौदनम् ॥ कवचाभरणच्छत्रवालव्यजनमेव च । यवसं तृणमर्जुनम्, तदादि वेश्मान्तं बिल्वादिकार्थैः प्रोक्षि- तं सद्यो निर्विषं भवति । शेलूपाटलयतिविषाशिग्रुगोभीपुनर्नवाः । समङ्गावृक्षमूलत्वकपित्थं वृषशोणितम् ॥ सहदन्तशठं तद्वत्प्रोक्षणं विषनाशनम् । लाक्षाप्रियङ्गुमञ्जिष्ठासमङ्गासहरेणुकाः ॥ सपथ्याह्वा मधुयुता बभ्रुपित्तेन कल्किताः । निखनेद्गोविषाणस्थाः सप्तरात्रं महीतले ॥ ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् । संस्पृष्टः सविषस्तेन सद्यो भवति निर्विषः ॥ मनोव्हाऽऽलक्ष्मीपुष्पस्त्वङ्गङ्गाश्वेतसर्षपाः । कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः ॥ शुनो गोः कपिलायाश्च सौम्याख्योऽयं परोऽगदः । विषजित्परमः कार्यो मणिरत्नं च पूर्ववत् ॥

१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे पूर्ववत्, “ततः कृत्वा मणिं हेम्ना” इत्यादिप्रकारेण । मूषिका जीरका वापि हस्ते बद्धा विषापहा । हरेणुमांसीमञ्जिष्ठारजनी मधुकं मधु ॥ अक्षत्वक्सुरसा चापि श्वपित्तं पूर्ववन्मणिः । वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ॥ श्रुत्वा दृष्ट्वा समाघ्राय सद्यो भवति निर्विषः । त्र्यूषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ॥ सूक्ष्मैला त्रिवृतापत्रविडङ्गानीन्द्रवारुणी । मधुकं चेति सक्षौद्रं गोविषाणे निधापयेत् ॥ तस्मादुष्णाम्बुना मात्रां प्रागुक्तां योजयेत्तथा । विषं मुक्तं जरां याति निर्विषेऽपि न दोषभाक् ॥ सक्तुसर्जरसोशीरसर्पषापत्रवालकैः । सवेल्लारुष्करखुरैः कुसुमैरर्जुनस्य च ॥ धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् । न तत्र कीटाः सविषा दर्दुरा न सरीसृपाः ॥ न कृत्याः कार्मणा याश्च धूपोऽयं यत्र दह्यते । कल्कितैश्चन्दनक्षीरपलाशद्रुमवल्कलैः ॥ मूर्वैलवालुसुरसानाकुलीतन्दुलीयकैः । क्वाथः सर्वोदकार्थेषु काकमाचीयुतैर्वृतः ॥ रोचनापत्रनैपालीकुङ्कुमैस्तिलकं वहन् । विषैर्न बाध्यते स्याच्च नरनारीनृपप्रियः ॥ चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बकैः । दिग्धं निर्विषतामेति गात्रं सर्वविपार्दितम् ॥ शिरीषस्य फलं पत्रं पुष्पं त्वङ्‌मूलमेव च । गोमूत्रपिष्टं ह्यगदः सर्वकर्मकरः स्मृतः ॥ इति ।

मणयो मन्त्राश्चागदाः प्रसिद्धास्तत्सङ्ग्रहं च कुर्यात् । एव- मादिभिर्निर्विषमन्नं निर्णीय भुञ्जीत । तथा तत्रैव, भुक्त्वा गृहीतताम्बूलः परिक्रम्य विशेत्ततः । शयने वामपार्श्वेन ततः शास्त्राणि चिन्तयेत् ॥ इति । मनुः, भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य च यथाकालं पुनः कार्याणि चिन्तयेत् ॥ अलङ्कृतस्तथा पश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ इति । याज्ञवल्क्यः, हिरण्यं व्यापृतानीतं भाण्डागारे न्यसेत्ततः । पश्येच्चारांस्तथा दूतान् प्रेषयेन्मन्त्रिसङ्गतः ॥ हिरण्यं हिरण्यादिधनम् । व्यापृतानीतं, व्यापृतैराकरादि- द्रव्यार्जनस्थानेषु नियुक्तैरानीतम् । ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ सन्ध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् । गीतैर्नृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥ इति । भुक्त्वा यथेच्छमङ्गनाभिः सह क्रीडेत, कार्यवशान्मन्त्रिभिर्वा समागतो भवेत् । बलानां हस्त्यश्वादीनाम् । सेनान्या चमूपतिना सह बलविषयमर्थं च चिन्तयेत् । सन्ध्यां, सायंसन्ध्याम् । गीतं नृत्यं च श्रुत्वा भुक्त्वा वेदं पठेत् । अत्र विशेषान्तरमाह — मनुः, सन्ध्यामुपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।

१७० वीरमित्रोदयस्य राजनीतिप्रकाशे अभयैरपराजितैरायुष्यैः स्वस्त्ययनैरप्रतिरथेनेति च हुत्वा संस्थाप्य “अग्नेरदोसि” इत्यहतवासोभिः प्रच्छाद्य रसैः कुम्भानौदुम्बरान् पूरयित्वा प्रतिदिशमवस्थाप्य, “ममाग्ने वर्चो” “अभयं द्यावापृ- थिवी” “उदुत्तमं वरुण” “अश्विना ब्रह्मणायतम्” इति जुहुयात् । पौर्णमासीप्रथमेति च जुहुयात् दुन्दुभिमाहन्यादित्युक्तम् । “उप- श्वासय पृथिवीम्” इति तत्रैवानुमन्त्रणं च । सर्वाणि च वादि- त्राणि वाहनानि च “जनस्यास्मान् प्रहर्षय” पश्चमीं प्रतिष्ठापये- त् । “न तं यक्ष्मा एतु देव” इति गुग्गुलुकुष्ठधूपं दद्यात् । “यस्ते गन्धस्त्रयायुषम्” इति भूतिं प्रयच्छेत् । “दूष्या दूषिरसि” इति प्रतिसरं बद्ध्वा “वातः पुरस्तात्” इति प्रतिदिशं क्षिपेत् । बहिर्नि- सृत्योत्तरेण गत्वा वाह्येनोपनिष्क्रम्य सुहृदे कुर्याच्छ्रद्धते कुर्या- द्वाहनानामभयं कर्म्म । तन्त्रमित्युक्तां शान्तिं, ‘तन्त्रभूतां महाशान्तिं प्रवक्ष्याम’ इत्यादिनाक्ताम् । दूषणेन, ‘दूष्या दूषिरसि’ इतिसूक्तेन । निः- सालां, ‘निःसालां धृष्णुं धिषणम्’ इतिसूक्तम् । प्रतिसरं, हस्ते तन्तुमयं कङ्कणम् । अथाश्वयुजे मासे पूर्णमास्यामपराह्ने हस्तिने नीराजनं कुर्यात्। प्रागुदक्प्रवणे देशे यत्र वा मनो रमते । “गिरयस्ते पर्व- ता” इत्येतया हस्तशतमर्द्धं वा मण्डलं परिगृह्य “याभिर्यज्ञम्” इति सम्प्रोक्षेत् । तत्र श्लोकाः— दशहस्तसमुत्सेधं पञ्चहस्तं तु विस्तृतम् । शान्तिवृक्षमयं कुर्यात्तोरणं पुष्टिवर्द्धनम् ॥ शुक्लैः शुक्लाम्बरध्वजैर्माल्यैश्च परिभूषितम् । कारयेद्विले शुभ्रे रसैश्च परिपूरिते ॥ रसैस्त्वामभिषिञ्चामि भूमे मह्यं शिवा भव ।

राज्ञो वर्षकृत्यम् । १७१

असपन्ना सपत्नश्रीर्मम यज्ञविवर्द्धनी । इमं स्तम्भूभृतांतवक्तावुभौ मा यससावतात् ॥ ? यो मा कश्चाभिदासति तमिमौ भूमिर्दहतामित्यु- च्छ्रयस्व “इमाया ब्रह्मणस्पत” इति । एताभ्यामुच्छ्रयीणि मा- लापताकैस्तम्भान् संयोष्य तस्यां चतुर्हस्तां वेदिं कृत्वा दर्भ- पवित्रपाणिर्बलिं पुष्पाणि च दत्त्वा मधुना मिश्रैः स्वस्तिकं स- यावकदधिकृशरापूपकान् पायसं घृतं विविधपानभक्षफलैरग्निं परिस्तीर्य “आपोऽस्मान्मातरः सूदयन्तु” इति चतुरौदुम्बरान् कुम्भान् ह्रदोदकेन पूरयित्वा प्रतिदिशमवस्थाप्य दध्यात् रौद्रा- ग्नेयवासव्यवारुणा मन्त्राः । रक्षोघ्नं कृत्वा दूषणं यशस्यवर्चस्या- नि च हुत्वौषधिं समादाय द्विहस्तं मण्डलमित्युक्तम् । तत्र श्लोकः- बृहत्कण्टारिकण्टकालघुकण्टारिकाः स्मृताः । सुवर्णपुष्पी श्वेतगिरिकर्णिका ह्युदिसत्त्वा ॥ ? सिंही व्याघ्री हिरण्यवर्णामपराजिता पृश्निपर्णी दूर्वा पद्म- मुन्मत्तमालिनीं तामनुमन्त्रयते । वैणवं कटमवस्थाप्यादध्यात् । द्वैपवैयाघ्रानडुच्चर्म्म परिस्तीर्य ततो या स्यादधिदेवता तस्यै बलिं दत्त्वा पिण्डानि च दद्यात् । हस्तिनमाचामयेत् । यस्यां दिशि रिपुर्न भवति तां दिशं गत्वा हस्तिनमानयेद्धिरण्येने रजतेन वज्रमणिमुक्तादिभिः शङ्खेन चन्दनेन भद्रदारुणा कुष्ठेन नलदेन रोचनेनाञ्जनेन मनःशिलया पद्मकुमुदोत्पलैः “ममाग्ने वर्च” इति सूक्तं दक्षिणोत्तरमुखं प्रतिजपेच्छेषेण गात्राण्यभ्यञ्जयेत् । तत्र श्लोकः- हस्तिनां रक्षणे दण्डः कर्त्तव्यो वैणवो नवः । षोडशारत्निमात्रस्तु चारुपर्वा मनोरमः ॥

१७२ वीरमित्रोदयस्य राजनीतिप्रकाशे तेन वारणान् वारयेत्। दन्ताग्रेषु तृणानि कृत्वा “यथा हव्यं वहसि ग्रससि तं जातवेदसम्"इत्यग्निं प्रज्वालयेत्। “सुजातं जात- वेदसम्" इति वाचयेद् “यथा हव्यम्" इति नीराजयित्वा। “निधिं बिभ्रति" इति शालां प्रवेशयेदनपेक्षमाणाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश्च भवन्ति । गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च । ‘निधिं बिभ्रति बहुधा गुहासु' इतिसूक्तं पठित्वा शालां प्रवेशयेत् । इति हस्त्यश्वदीक्षा समाप्ता । परिशिष्टद्वयम्— अथ वर्षशतं प्रवर्द्धमानो राजानमभिवर्द्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् । तन्त्रमित्युक्तं,“पुनन्तु मा वायोः पूतो वैश्वा- नरो रश्मिः” इति । पवित्रैः पुण्याहादीनि च मङ्गलैर्यजमानं च सम्प्रोक्ष्य “यदा बध्नन्” इति पुष्पाद्यलङ्कारमावर्ज्जयित्वा मा- हेन्द्रं चरुं श्रपयेत् । लोकपालेभ्यश्च द्वितीयं चरुं श्रपयेत् । “महां इन्द्रो य ओजसा” इति द्वयौ हुत्वा इन्द्राय स्वाहेत्या- दिलोकपालांश्चेष्ट्वा राजानमन्वालभ्य आदिवज्जुहुयात् “अर्वा- ञ्चमिन्द्रः सुत्रामेममिन्द्र वर्द्धय क्षत्रियं मे शतं जीवन्तु शरद” इति । “रक्षन्तु त्वाग्नय” इति चतसृभी रक्षां कृत्वा रोचनया अलङ्कुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा “मानायीतन्तुम्” इति सूक्तेन रक्षासूत्रं सम्पातं च कृत्वा “धाता ते ग्रन्थिम्” इति बध्नाति । उत्तरं तन्त्रं हिरण्यं दक्षिणा ॥ १ ॥ महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रं शस्त्रसत्त्वसम्पातः । तृतीयायां हस्त्यश्वानां कर्म्म,सप्तम्यां हस्त्यश्वानां दर्शनम्, अष्टम्यामथ पिष्टमयीमित्या- दि,नवम्यां दुर्गापूजनम् अथ नवम्यामित्यादि नवम्याम् । अथा-

पराजितदशम्यां पूर्वाह्ने विजयमुहूर्त्ते उक्तं प्रास्थानिकम् । एतानि खलु प्राग्द्वाराणि इत्यादि “स्वस्तिदा ये ते पन्थान”इ- त्यादि नक्षत्रहोमश्च अथ श्रवणे नक्षत्रे अथ राज्ञामिन्द्रमहस्येति व्याख्यातः । अथ पौर्णमास्यामपराह्ने पूर्णमासिकं कर्म्म । अथापामार्गत्रयोदश्यां श्वेते मुहूर्त्ते स्नानं कृत्वा अपामार्गं त्रिः परिभ्रामयेद्राज्ञ उपरि मन्त्रेण, “ईशानां त्वा भेषजानाम्” इति त्रिभिः सूक्तैः “प्रतीचीनफल” इति सूक्तेन वा पुनः स्नानम् । तत आरात्रिकं परिधत्तेतिद्वाभ्यामितिसमानम् । अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिदीक्षादिसमानमभ्यातानान्तं कृत्वा “येस्यां प्राची दिक्”इति “मानो देवा” “यस्ते सर्प” इत्येतैः सूक्तैः तृणानि युगतद्वाना सम्पातवन्ते गवां च प्रातितमिमधानाश्ने हस्त्यश्वादियुगपत्तन्त्रं समानं धेनुर्दक्षिणा । अथाक्षयनवम्यां रात्रौ हस्त्यश्वादीनामनीकानां रथस्य परहोमश्च । अथ वि- ष्णुद्वादश्यां पुरोहितः पश्चिमां सन्ध्यामुपास्य गृहीतदर्भो यत्र राजानमभिगम्य पौष्टिकहोमश्च रात्रौ नीराजनं कृत्वा हस्त्य- श्वेभ्यश्च । अथ कार्त्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां वृषोत्सर्गः। अथाग्रहायणीपौर्णमास्यां तन्त्रं कृत्वा पादाग्रेतिद्वाभ्यां रसं सम्पात्याभिमन्त्र्य राजानं प्राशयेत् । अथ पौष्यां पौर्ण- मास्यामुक्तः पुष्याभिषेकः । अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलिका । महानवम्यामुक्तप्रज्वलनं नीराजनं वा । अथ ग्री- ष्मप्रतिपद्यायुष्मते स्नानं कृत्वाऽपां सूक्तैराप्लुत्य प्रदक्षिणमा- वृत्याऽप उपस्पृशेदित्युक्तम् । अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रमश्नातीत्युक्तम् । अथ मदनत्रयोदश्यां वैशाख्यां पौर्ण- मास्यां मध्याह्ने गर्ते वाप्यां पुष्करिण्यां घटे वा सर्वगन्धान् प्र- क्षिप्य प्राक्तन्त्रमभ्यातानान्तं कृत्वा “सिंहे व्याघ्रे” “यशोहविः”

१७४ वीरमित्रोदयस्य राजनीतिप्रकाशे “प्रातरग्निं”’“गिरावर्गराटेपु’”’“दिवस्पृथिव्या’’इत्येतैः सूक्तैरुद- कं सम्पात्याभिमन्त्र्य राजानं स्नापयेत् प्रविश्य प्रोक्षति च तन्त्रं संस्थापयेद्धेनुर्दक्षिणा । अथ श्रावण्यां पौर्णमास्यां विजयमुहूर्त्ते “रक्षन्तु त्वाग्नय” इति रक्षाबन्धनं कृत्वा नीराजनं च बाह्येनोप- निष्क्रम्येतिपैठीनसिः । अथ आदित्यदिने आदित्यमण्डलो व्याख्यातः । अथ जन्मनक्षत्रे जन्मनक्षत्रयागहोमो व्याख्यातः। अथ राजकर्माणि प्रतिनक्षत्रं कर्त्तव्यानीत्यायुधायाश्वप्रभृत्या- दीनि विभृयादिति । कृत्तिकारोहिण्यादीनि व्याख्यातानि । इन्द्रोत्सवे इन्द्रोत्सवो व्याख्यातः । प्रतिदिनं ग्रहयागः । प्रतिदिनं नक्षत्रयागः । प्रतिदिनं दशगुणी महाशान्तिः । प्रतिस्थानं कृत्तिकारोहिण्यौ व्याख्याते । नक्षत्रस्नानानि नक्षत्रदक्षिणाश्च । राजकर्म सांवत्सरीयं हस्त्यश्वादिदीक्षा । इति राज्ञो वर्षकृत्यम् । अथ सहायाः । अभिषेकानन्तरं राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्- मत्स्यपुराणे, मनुरुवाच । राज्ञोऽभिषिक्तमात्रस्य किन्नु कृत्यतमं भवेत् । एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ मत्स्य उवाच । अभिषेकार्द्रशिरसा राज्ञा राजीवलोचन । सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ यदप्यल्पतरं कर्म तदप्येकेन दुष्करम् । पुरुषेणासहायेन किमु राज्यं महोदयम् ॥ तस्मात्सहायान् वरयेत्कुलीनान्नृपतिः स्वयम् ।

राज्ञः सहायाः । १७५ शूरान् कुलीनजातीयान् बलयुक्तान् श्रियान्वितान् ॥ रूपसत्त्वगुणोपेतान् संयतान् क्षमयाऽन्वितान् । क्लेशक्षमान् महोत्साहान् धर्मज्ञांश्च प्रियंवदान् ॥ हितोपदेशकाञ्ज्ञाज्ञः स्वामिभक्तान् श्रियान्वितान् । इति । विष्णुधर्मोत्तरे, साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः । अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥ पारिपार्श्वकाः निकटवर्त्तिनः। तांश्च नित्यं परीक्षेदित्युक्तम्- तत्रैव, परीक्षेतप्रत्यहं भृत्यानामैश्वारैर्नराधिपः । समानशीलैर्विश्वस्तैर्विदृणोति मनोगतम् ॥ इति । बालिशादीनपरीक्षितांश्च न कुर्यादित्युक्तम्- तत्रैव, न बालिशा न च क्षुद्रा नाप्रज्ञा नाजितेन्द्रियाः ।

१७६ वीरमित्रोदयस्य राजनीतिप्रकाशे गरुडपुराणे, भृत्याश्च त्रिविधा ज्ञेया उत्तमाधममध्यमाः । नियोक्तव्या यथार्हेषु त्रिविधेषु च कर्मसु ॥ इति । मत्स्यपुराणेऽपि, गुणहीनानपि तथा विज्ञाय नृपतिः स्वयम् । कर्मस्वेव नियुञ्जीत यथायोग्येषु भागशः ॥ अत्रायं वाक्यार्थः । यदि मौलाः कुलीना अपि तथा पि- तृपैतामहपदयोग्यगुणहीनास्तांस्तथाविधगुणहीनानपि विज्ञाय यथायोग्येष्वेव कर्मसु स्वयं भागशः कर्मविभागेन नियुञ्जीत, न तु तत्तत्पितृपैतामहपदेषु, तत्र तत्र तेषामयोग्यत्वात् । यथायो- ग्येषु कर्मसु नियुञ्जीतैवेति वा वाक्यार्थः । तेषामवश्यभरणीया- नामभरणे तेषां च राजान्तराश्रयणे महादोषः स्यात् । भृत्याना- मवश्यं परीक्षा कार्येत्युक्तम्— गरुडपुराणेऽपि, यथा चतुर्भिः कनकं परीक्ष्यते तुला कष च्छे द न ता प ने न । तथा चतुर्भिर्भृतकः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा॥ इत्यादिवचनैः परीक्षितास्तत्तत्कर्मसु नियोज्याः । एते एव च सहाया इति व्यपदिश्यन्ते । ते च द्विविधा राज्याङ्गोपकारका राजाङ्गोपकारकाश्च । ते च प्रत्येकं द्विविधा दृष्टार्था अदृष्टार्थाश्च । दृष्टद्वारकोपकारकारित्वेन दृष्टार्थत्वम्, अदृष्टद्वारकोपकारित्वेन चादृष्टार्थत्वं द्रष्टव्यम् । यद्यप्युभयाङ्गोपकारित्वेन चोभयत्रापि त्रैविध्यं वक्तुमुचितं तथापि भूयस्त्वात्तद्व्यपदेश इति न्यायेन द्वै- विध्यमेव न्याय्यम् । अन्यथा वक्ष्यमाणानामामात्यादी- नां राजाङ्गोपकारित्वेन द्वैविध्यमपि न स्यात् । न चेष्टापत्तिः,

राजसहायेष्वमात्यलक्षणम् । १७७ उपधेयसङ्करेऽप्युपाधेरसङ्करात् । तत्र राज्याङ्गोपकारका दृष्टार्था अमात्यसेनापतिप्रभृतयः, अदृष्टार्थाश्च वक्ष्यमाणब्राह्मणामा- त्यप्रभृतयः । राजाङ्गोपकारकाश्च दृष्टार्थाः प्रतीहारसूदप्रभृत- यः, अदृष्टार्थाश्च पुरोहितप्रभृतयः । एते च यथायथं स्वस्वबु- द्धया परिच्छिद्य पृथक्पृथङ्गिरूपणीयाः । तत्रामात्याः । तत्र— महाभारते राजधर्मे, कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् । धर्मनित्यं स्थितं नीत्यां मन्त्रिणं पूजयेन्नृपः ॥ इति । याज्ञवल्क्येऽपि, स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् । तैः सार्द्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ इति । स, उक्तलक्षणो राजा । मन्त्रिणः कार्याकार्यविदः । प्राज्ञान् ऊहापोहसमर्थान्। मौलान् स्ववंशपरम्परायातान्। स्थिरान्, स्वा- मिहितेष्वचञ्चलान् । शुचीन्, उपाधिरहितान् । प्रकुर्वीत, प्रयत्ना- दुपाददीत । राज्यं, राजकर्म षाड्गुण्यं, तदङ्गानि स्वाम्या- दीनि च । चिन्तयेत्, हेयोपादेयतया विचारयेत् । अथ विप्रेण, विप्रामात्येन सह विचारयेत् । तदनन्तरं स्वयमेवार्थं साध- कबाधकप्रमाणवत्तया निश्चिनुयात् । कल्पतरुणा नराधिप इत्यनुवृत्तौ–सन्मन्त्रिण इति पाठो लिखितः। तेषां गुणान्तराणि सङ्ख्यां चाह– मनुः, मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् । सचिवान् सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥ लब्धलक्षान् परिदृष्टकर्मणः । अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । २३

[Page Header: १७८ वीरमित्रोदयस्य राजनीतिप्रकाशे]

विशेषतोऽसहायेन किमु राज्यं महोदयम् ॥ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् । तेन सार्द्धं विनिश्चित्य ततः कार्यं समाचरेत् ॥ इति । राजगुणानुवृत्तौ कात्यायनोऽपि, एतैरेव गुणैर्युक्तममात्यं कार्यचिन्तकम् । ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्भवम् ॥ मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः । राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः ॥ न तस्य वचने कोपमेतेषां तु प्रवर्तयेत् । यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥ इति । प्रियवादिनः असत्यप्रियवादिनः । मन्त्रिणो यत्र, राज्यकृ- त्येषु, प्रियवादिनस्तत्र पार्थिवो राज्याद्धीयेत । सभ्याः प्राय- श्चित्तादौ, तत्र धर्मात् । वैद्याश्चिकित्सायां, तत्र सुखात् । तस्य न्याय्यस्य । पाराशरे, अमात्यान्मन्त्रिणो दूतान् यथोदितपुरोहितान् । प्राड्विवाकं सभास्तारान् हितानारक्षकानपि ॥ इत्यादिना सप्त पञ्च वा यथोक्तगुणविशिष्टा मौला अ- मात्याः कर्तव्याः । एकश्च राजगुणसमानगुणो ब्राह्मणोऽमा- त्यः कर्तव्यः। एते चामात्या मन्त्रिपदव्यपदेशभाजोऽपीत्युक्तम् । इत्यमात्याः ।

राजसहायेषु सेनापत्यादिलक्षणम् । १७९ अथ सेनापतिः । तत्र मत्स्यपुराणे, कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः । हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषितः ॥ निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सते । कृतज्ञः कर्मणां शूरस्तथा क्लेशसहो ऋजुः ॥ व्यूहतन्त्रविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा ॥ इति । व्यूहतन्त्रविधानज्ञः, व्यूहाश्चक्रदण्डगरुडाद्याकाराः से- नासन्निवेशास्तेषां तन्त्रं तत्प्रतिपादकं शास्त्रं विधानं रचनं च तज्जानाति तादृशः । इति सेनापतिः । अथ राज्याध्यक्षः । गरुडपुराणे, कुलशीलगुणोपेतः सत्यधर्मपरायणः । रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ इति । इति राज्याध्यक्षः । अथ रत्नपरीक्षकः । गरुडपुराण, मूल्यरूपपरीक्षाकृद्भवो¹ रत्नपरीक्षकः । इति । रत्नजातयस्तत्परीक्षाप्रकाराश्च लक्षणप्रकाश एव निरूप- यिष्यन्त इति नेह निरूप्यन्ते । इति रत्नपरीक्षकः । १ अत्र उत्त्वमार्षम् ।

१८० वीरमित्रोदयस्य राजनीतिप्रकाशे अथ प्रतीहारः । विष्णुधर्मोत्तरे, प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राही च सर्वेषां प्रतीहारो विधीयते ॥ इति । गरुडपुराणेऽपि, इङ्गिताकारतत्त्वज्ञो धनवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ इति । इति प्रतीहारः । अथ दूतः । मत्स्यपुराणे, यथोक्तवादी दूतः स्याद्देशभाषाविशारदः । सूक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥ विज्ञाय देशं कालं च यद्धितं स्यान्महीक्षितः । वक्ता तस्या१पि यः काले स दूतो नृपतेर्भवेत् ॥ इति । गरुडपुराणेऽपि, बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः । कूरो यथोक्तवादी च एष दूतो विधीयते ॥ इति । बुद्धिः निश्चयात्मिका । मतिः, प्रज्ञा शीघ्रग्राहिणी । इति दूतः । अथ रक्षिणः । मत्स्यपुराणे, प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः । राज्ञा तु रक्षिणः कार्याः सदा क्लेशसहा हिताः ॥ इति । इति रक्षिणः । १ नयस्य इति मुद्रितमत्स्यपुराणे पाठः ।

ताम्बूलधार्यादिलक्षणानि । १८१ अथ ताम्बूलधारिप्रभृतीनां लक्षणानि । मात्स्ये, अनाहार्यो ऽनृशंसश्च दृढभक्तिश्च पार्थिवे । ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥ अनाहार्यः, द्रव्यादिदानद्वारा परैरभेद्यः । तथा, पुरुषस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः । शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥ शूरश्च बलयुक्तश्च गजाश्वरथकोविदः । धनुर्द्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः ॥ तथा, षाड्गुण्यविधितत्त्वज्ञो देशकालविशारदः । सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥ सन्धिविग्रहयानासनद्वैधीभावसंश्रयाः षाड्गुण्यं, तस्य विधेः प्रकारस्य तत्त्वं जानाति सः । तथा, निमित्तशकुनज्ञानी हयाशिक्षाविशारदः । हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ बलाबलज्ञो रथिनः स्थिरदृष्टिः प्रियंवदः । शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥ अनाहार्यः शुचिर्दक्षश्चिकित्सितविदां वरः । सूपशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ॥ इति । अनाहार्यः परैरभेद्यः । सूपकारलक्षणम्--

१८२ वीरमित्रोदयस्य राजनीतिप्रकाशे गरुडपुराणे, पितृपैतामहो दक्षः शास्त्रज्ञः सत्यपाचकः । शौचयुक्तः सदाचारः सूपकारः स उच्यते ॥ इति । शास्त्रज्ञः, नलभीमसुषेणादिकृतसूपशास्त्रज्ञः । “आर्द्रकं गु- डसंयुक्तं” “ताम्रपात्रे स्थितं गव्यम्” इत्यादिनिषिद्धज्ञानाय धर्मशास्त्रज्ञश्च । मत्स्यपुराणे, सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सर्वे महानसे धार्या नीचकेशनखा नराः ॥ इति । धर्माध्यक्षलक्षणम्— गारुडे, समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ इति । मात्स्ये, समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः । सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥ लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै । इति । गरुडपुराणे, मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ इति । मत्स्यपुराणे, शीर्षोपेतान् सुसम्पूर्णान् शुभश्रोणिगतान् समान् । अक्षरान् वै लिखेद्यस्तु लेखकः स वरः स्मृतः ॥

लेखकादिलक्षणानि । १८३ उपायवाक्यकुशलः सर्वशास्त्रविशारदः । उपायाः, सामदानभेददण्डाः, तेषु वाक्येषु च निपुणः । बह्वर्थवक्ता चाल्पेन लेखकः स्यान्नृपोत्तम ॥ राजाभिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्यो नृपे भक्तो लेखकः स्यान्नृपोत्तम ॥ पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥ धर्माधिकरणे कार्या जनाह्वानकरा नराः । एवंविधास्तथा कार्या राज्ञा दौवारिका जनाः ॥ तथा, आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षरक्षिता ॥ अक्षरक्षिता, अक्षाणां पाशानां क्रीडासाधनीभूतानां रक्षिता पालकः । तथा, लोहवस्त्राजिनादीनां रत्नानां च विधानवित् । विज्ञाता फल्गुसाराणामनाहार्यः शुचिः सदा । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥ आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः । व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवीक्षिता ॥ परम्परागतो यः स्यादाष्टाङ्गेन चिकित्सते । अष्टावङ्गानि, शल्य-शालाक्य-कायचिकित्सा-भूततन्त्र- विषविद्या-रसायन-वाजीकरण-कुमारभृत्याः । अनाहार्यः स वैद्यः स्यात् धर्मात्मा च कुलोद्गतः ॥ प्राणाचार्यः स विज्ञेयो वचनं तस्य भूभुजा ।

१ अयं श्लोको मुद्रितमत्स्यपुराणे नोपलभ्यते ।

१८४ वीरमित्रोदयस्य राजनीतिप्रकाशे अविचार्य सदा कार्यं यथा कार्यं पृथग्जनैः ॥ हस्तिशिक्षाविधानज्ञो वनजातिविशारदः । क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः । गजारोही नरेन्द्रस्य सर्वकर्मसु शस्यते ॥ स्वासनो, दृढासनः। दुष्टगजेनापि चालयितुमशक्यमासनमु- पवेशनं यस्य स तथा । हयशिक्षाविधानज्ञस्तच्चिकित्सितपारगः । अश्वाध्यक्षो महीभर्तुः स्वासनंश्च प्रशस्यते ॥ अनाहार्यश्च शूरश्च तथा प्राज्ञः कुलोद्गतः । दुर्गाध्यक्षः स्मृतो राज्ञ उद्युक्तः सर्वकर्मसु ॥ वास्तुविद्याविधानज्ञो लघुहस्तो जितश्रमः । दीर्घदर्शी च शूरश्च स्थपतिः परिकीर्तितः ॥ यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते । अस्त्राचार्यो निरुद्वेगः कुशलश्च विशिष्यते ॥ यन्त्रमुक्ते शरादौ । पाणिमुक्ते शक्त्यादौ । अमुक्ते खड्- गादौ । मुक्तधारिते यष्ट्यादौ । वृद्धः कुलोद्गतः श्लक्ष्णः पितृपैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते ॥ पञ्चाशाब्दाधिका योषाः पुरुषाः सप्ततेः परे । अन्तःपुरचराः कार्या राज्ञा सर्वेषु कर्मसु ॥ स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृतः । राज्ञः स्यादायुधागारे दक्षः कर्मसु चोद्यतः ॥

१ एवं सप्ताधिकारेषु पुरुषाः सप्त ते पुरे । परीक्ष्य चाधिकार्याः स्यू राज्ञा सर्वेषु कर्मसु ॥ इति मुद्रितमत्स्यपुराणे पाठः ।

राज्ञोऽमात्यान्तराणि । १८५ स्थापना, आयुधयन्त्रावरणानामुचितदेशनिवेशः । जात- यः, आयुधानामवान्तरभेदाः । कर्माण्यपरिमेयानि राज्ञो भृगुकुलोद्वह । उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥ उत्तमाधममध्येषु पुरुषेषु नियोजयेत् । नरकर्मविपर्यासाद्राजा नाशमवाप्नुयात् ॥ नरकर्मविपर्यासात्, उत्तमे कर्मण्यधमस्य अधमे कर्मण्युत्त- मस्य नियोजनात् । नियोगं पौरुषं भक्तिं श्रुतं शौर्यं कुलं नयम् । ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणं महीक्षिता ॥ इति । शङ्खलिखितौ, न गृध्नुपरिवारः स्यात्कामं गृध्नो राजा प्रेयान्न हंसपरि- वारो न हंसो गृध्नुपरिवारः परिवाराद्धि दोषाः प्रादुर्भवन्ति तेऽलं विनाशाय तस्मात्पूर्वमेव तत्परिवारं लिखेत् श्रुतशीला- न्वयोपपन्नम् । इति । मनुः, अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् । आप्तानर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥ निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान् प्रकुर्वीत विचक्षणान् ॥ इति । शङ्खलिखितौ, सर्वेषां राजकुलरक्षणं कोशपरिपालनं गोब्राह्मणपरित्राणं साम्परायिकं क्रियासाधारणत्वादनुजीविनां विशेषेण चारप्रति- चारौ मन्त्रप्रणिधयश्च सर्पाः तत्प्रयोजनत्वात्प्रत्यक्षा वृत्तिस्तस्य २४

१८६ वीरमित्रोदयस्य राजनीतिप्रकाशे राज्ञो भवेदेकान्ततो हि दोषस्तस्माद्भृत्यपक्षाः क्रोधलोभमान- भयदोषोपहताः संलपिता विमानिताभ्याख्याता दानमानस्था- नव्यवरोपिता हृतसर्वस्वाः स्वदोषोपहतादयः सततं प्रत्यवेक्षि- तव्या, धर्मार्थहितेष्वेतेषां यतेत स्वविषयाश्रावः परविषयभेदः सामादिभिरुपायैर्मन्त्रज्ञेषु मन्त्रकर्म दण्डकर्म कर्मकरेषु वीरा मह- त्स्वात्मनि च धर्मनित्याः सङ्ग्रहेष्वलुब्धाः प्रत्यन्तेषु मौलाः शुचयोऽर्थकृत्येषु अन्येषु यथानुरूपं नियोज्याः । इति । अस्यार्थः । सर्वेषाम् अमात्यानाम् । सम्परायो, युद्धं त- दुपयोगि साम्परायिकम् । क्रियासाधारणत्वात्, राज्यरक्षण- रूपैकक्रियत्वात् । चारो, जनपदचरितज्ञानाय प्रच्छन्नचारी । तच्चरितज्ञः प्रच्छन्नः प्रतिचारः । मन्त्रप्रणिधयः, राज्ञो मन्त्रा- न्वेष्टारः । एते परराजसम्बन्धिनः, सर्पाः शङ्कनीया इत्यर्थः । तत्प्रयोजनत्वात्, यतस्तदेव चरितज्ञानं चारादीनां प्रयोजनम् । प्रत्यक्षा वृत्तिः, स्वयं कार्यदर्शनम् परोक्षाचारैः परचरितज्ञानम् । एकान्ततः, अन्यतरवृत्तिमात्राश्रयेण । भृत्यपक्षाः, भृत्यैः पूर्वं सम्मानिताः । अभ्याख्यातम्, आभिमुख्येन गुणा- ख्यानम् । दानमानस्थानव्यवरोपिता, दानेन व्यवरोपिता, मानेन व्यवरोपिताः, स्थानेन व्यवरोपिताः । स्वदोषो- पहता आत्मदोषदूषिताः । एवमादयः सततं प्रत्यवेक्षित- व्याः । तेन कारणेन एतेषां सम्बन्धिषु धर्मादिषु यतेत प्रयत्नं कुर्यात् । स्वविषयाश्रावः, स्वविषयस्य मन्त्रस्याश्रावणं अप्र- काशनं कार्यम् । परविषयभेदः, परविषयाणां शत्रुसम्बन्धिनाम- मात्यादीनां भेदः। सामादिभिरुपायैः,कार्य इति शेषः। कर्मकरेषु कर्मकरणाधिकृतेषु । दण्डकर्म, अपराधनिश्चये कार्यमिति शेषः । महत्सु कार्येषु स्वात्मनि च रक्षितव्याः । धर्मनित्या धर्मिकाः ।