वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 178, कुल 490 में से
संदर्भ में पढ़ें१८२ वीरमित्रोदयस्य राजनीतिप्रकाशे गरुडपुराणे, पितृपैतामहो दक्षः शास्त्रज्ञः सत्यपाचकः । शौचयुक्तः सदाचारः सूपकारः स उच्यते ॥ इति । शास्त्रज्ञः, नलभीमसुषेणादिकृतसूपशास्त्रज्ञः । “आर्द्रकं गु- डसंयुक्तं” “ताम्रपात्रे स्थितं गव्यम्” इत्यादिनिषिद्धज्ञानाय धर्मशास्त्रज्ञश्च । मत्स्यपुराणे, सूदशास्त्रविधानज्ञाः पराभेद्याः कुलोद्गताः । सर्वे महानसे धार्या नीचकेशनखा नराः ॥ इति । धर्माध्यक्षलक्षणम्— गारुडे, समस्तकृतशास्त्रज्ञः पण्डितोऽथ जितेन्द्रियः । शौर्यवीर्यगुणोपेतो धर्माध्यक्षो विधीयते ॥ इति । मात्स्ये, समः शत्रौ च मित्रे च धर्मशास्त्रविशारदः । विप्रमुख्यः कुलीनश्च धर्माधिकरणो भवेत् ॥ कार्यास्तथाविधास्तत्र द्विजमुख्याः सभासदः । सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः ॥ लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै । इति । गरुडपुराणे, मेधावी वाक्पटुः प्राज्ञः सत्यवादी जितेन्द्रियः । सर्वशास्त्रसमालोकी ह्येष साधुः स लेखकः ॥ इति । मत्स्यपुराणे, शीर्षोपेतान् सुसम्पूर्णान् शुभश्रोणिगतान् समान् । अक्षरान् वै लिखेद्यस्तु लेखकः स वरः स्मृतः ॥