वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 177, कुल 490 में से
संदर्भ में पढ़ेंताम्बूलधार्यादिलक्षणानि । १८१ अथ ताम्बूलधारिप्रभृतीनां लक्षणानि । मात्स्ये, अनाहार्यो ऽनृशंसश्च दृढभक्तिश्च पार्थिवे । ताम्बूलधारी भवति नारी वाप्यथ तद्गुणा ॥ अनाहार्यः, द्रव्यादिदानद्वारा परैरभेद्यः । तथा, पुरुषस्तरुणः प्रांशुर्दृढभक्तिः कुलोचितः । शूरः क्लेशसहश्चैव खड्गधारी प्रकीर्तितः ॥ शूरश्च बलयुक्तश्च गजाश्वरथकोविदः । धनुर्द्धारी भवेद्राज्ञः सर्वक्लेशसहः शुचिः ॥ तथा, षाड्गुण्यविधितत्त्वज्ञो देशकालविशारदः । सान्धिविग्रहिकः कार्यो राज्ञा नयविशारदः ॥ सन्धिविग्रहयानासनद्वैधीभावसंश्रयाः षाड्गुण्यं, तस्य विधेः प्रकारस्य तत्त्वं जानाति सः । तथा, निमित्तशकुनज्ञानी हयाशिक्षाविशारदः । हयायुर्वेदतत्त्वज्ञो भूमिभागविशेषवित् ॥ बलाबलज्ञो रथिनः स्थिरदृष्टिः प्रियंवदः । शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥ अनाहार्यः शुचिर्दक्षश्चिकित्सितविदां वरः । सूपशास्त्रविशेषज्ञः सूदाध्यक्षः प्रशस्यते ॥ इति । अनाहार्यः परैरभेद्यः । सूपकारलक्षणम्--