भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 176, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 176

१८० वीरमित्रोदयस्य राजनीतिप्रकाशे अथ प्रतीहारः । विष्णुधर्मोत्तरे, प्रांशुः सुरूपो दक्षश्च प्रियवादी न चोद्धतः । चित्तग्राही च सर्वेषां प्रतीहारो विधीयते ॥ इति । गरुडपुराणेऽपि, इङ्गिताकारतत्त्वज्ञो धनवान् प्रियदर्शनः । अप्रमादी प्रमाथी च प्रतीहारः स उच्यते ॥ इति । इति प्रतीहारः । अथ दूतः । मत्स्यपुराणे, यथोक्तवादी दूतः स्याद्देशभाषाविशारदः । सूक्तः क्लेशसहो वाग्मी देशकालविभागवित् ॥ विज्ञाय देशं कालं च यद्धितं स्यान्महीक्षितः । वक्ता तस्या१पि यः काले स दूतो नृपतेर्भवेत् ॥ इति । गरुडपुराणेऽपि, बुद्धिमान्मतिमांश्चैव परचित्तोपलक्षकः । कूरो यथोक्तवादी च एष दूतो विधीयते ॥ इति । बुद्धिः निश्चयात्मिका । मतिः, प्रज्ञा शीघ्रग्राहिणी । इति दूतः । अथ रक्षिणः । मत्स्यपुराणे, प्रांशवो व्यायताः शूरा दृढभक्ता निराकुलाः । राज्ञा तु रक्षिणः कार्याः सदा क्लेशसहा हिताः ॥ इति । इति रक्षिणः । १ नयस्य इति मुद्रितमत्स्यपुराणे पाठः ।