वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 175, कुल 490 में से
संदर्भ में पढ़ेंराजसहायेषु सेनापत्यादिलक्षणम् । १७९ अथ सेनापतिः । तत्र मत्स्यपुराणे, कुलीनः शीलसम्पन्नो धनुर्वेदविशारदः । हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषितः ॥ निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सते । कृतज्ञः कर्मणां शूरस्तथा क्लेशसहो ऋजुः ॥ व्यूहतन्त्रविधानज्ञः फल्गुसारविशेषवित् । राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियोऽथ वा ॥ इति । व्यूहतन्त्रविधानज्ञः, व्यूहाश्चक्रदण्डगरुडाद्याकाराः से- नासन्निवेशास्तेषां तन्त्रं तत्प्रतिपादकं शास्त्रं विधानं रचनं च तज्जानाति तादृशः । इति सेनापतिः । अथ राज्याध्यक्षः । गरुडपुराणे, कुलशीलगुणोपेतः सत्यधर्मपरायणः । रूपेण सुप्रसन्नश्च राज्याध्यक्षो विधीयते ॥ इति । इति राज्याध्यक्षः । अथ रत्नपरीक्षकः । गरुडपुराण, मूल्यरूपपरीक्षाकृद्भवो¹ रत्नपरीक्षकः । इति । रत्नजातयस्तत्परीक्षाप्रकाराश्च लक्षणप्रकाश एव निरूप- यिष्यन्त इति नेह निरूप्यन्ते । इति रत्नपरीक्षकः । १ अत्र उत्त्वमार्षम् ।