वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 174, कुल 490 में से
संदर्भ में पढ़ें[Page Header: १७८ वीरमित्रोदयस्य राजनीतिप्रकाशे]
विशेषतोऽसहायेन किमु राज्यं महोदयम् ॥ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् । तेन सार्द्धं विनिश्चित्य ततः कार्यं समाचरेत् ॥ इति । राजगुणानुवृत्तौ कात्यायनोऽपि, एतैरेव गुणैर्युक्तममात्यं कार्यचिन्तकम् । ब्राह्मणं तु प्रकुर्वीत नृपभक्तं कुलोद्भवम् ॥ मन्त्रिणो यत्र सभ्याश्च वैद्याश्च प्रियवादिनः । राज्याद्धर्मात्सुखात्तत्र क्षिप्रं हीयेत पार्थिवः ॥ न तस्य वचने कोपमेतेषां तु प्रवर्तयेत् । यस्मादेतैः सदा वाच्यं न्याय्यं सुपरिनिष्ठितम् ॥ इति । प्रियवादिनः असत्यप्रियवादिनः । मन्त्रिणो यत्र, राज्यकृ- त्येषु, प्रियवादिनस्तत्र पार्थिवो राज्याद्धीयेत । सभ्याः प्राय- श्चित्तादौ, तत्र धर्मात् । वैद्याश्चिकित्सायां, तत्र सुखात् । तस्य न्याय्यस्य । पाराशरे, अमात्यान्मन्त्रिणो दूतान् यथोदितपुरोहितान् । प्राड्विवाकं सभास्तारान् हितानारक्षकानपि ॥ इत्यादिना सप्त पञ्च वा यथोक्तगुणविशिष्टा मौला अ- मात्याः कर्तव्याः । एकश्च राजगुणसमानगुणो ब्राह्मणोऽमा- त्यः कर्तव्यः। एते चामात्या मन्त्रिपदव्यपदेशभाजोऽपीत्युक्तम् । इत्यमात्याः ।