वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
DevanagariHindipublished490 पृष्ठ
पृष्ठ 179, कुल 490 में से
संदर्भ में पढ़ेंपृष्ठ 179
लेखकादिलक्षणानि । १८३ उपायवाक्यकुशलः सर्वशास्त्रविशारदः । उपायाः, सामदानभेददण्डाः, तेषु वाक्येषु च निपुणः । बह्वर्थवक्ता चाल्पेन लेखकः स्यान्नृपोत्तम ॥ राजाभिप्रायतत्त्वज्ञो देशकालविभागवित् । अनाहार्यो नृपे भक्तो लेखकः स्यान्नृपोत्तम ॥ पुरुषान्तरतत्त्वज्ञाः प्रांशवश्चाप्यलोलुपाः ॥ धर्माधिकरणे कार्या जनाह्वानकरा नराः । एवंविधास्तथा कार्या राज्ञा दौवारिका जनाः ॥ तथा, आयव्ययज्ञो लोकज्ञो देशोत्पत्तिविशारदः । कृताकृतज्ञो भृत्यानां ज्ञेयः स्यादक्षरक्षिता ॥ अक्षरक्षिता, अक्षाणां पाशानां क्रीडासाधनीभूतानां रक्षिता पालकः । तथा, लोहवस्त्राजिनादीनां रत्नानां च विधानवित् । विज्ञाता फल्गुसाराणामनाहार्यः शुचिः सदा । निपुणश्चाप्रमत्तश्च धनाध्यक्षः प्रकीर्त्तितः ॥ आयद्वारेषु सर्वेषु धनाध्यक्षसमा नराः । व्ययद्वारेषु च तथा कर्त्तव्याः पृथिवीक्षिता ॥ परम्परागतो यः स्यादाष्टाङ्गेन चिकित्सते । अष्टावङ्गानि, शल्य-शालाक्य-कायचिकित्सा-भूततन्त्र- विषविद्या-रसायन-वाजीकरण-कुमारभृत्याः । अनाहार्यः स वैद्यः स्यात् धर्मात्मा च कुलोद्गतः ॥ प्राणाचार्यः स विज्ञेयो वचनं तस्य भूभुजा ।
१ अयं श्लोको मुद्रितमत्स्यपुराणे नोपलभ्यते ।