भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 181, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 181

राज्ञोऽमात्यान्तराणि । १८५ स्थापना, आयुधयन्त्रावरणानामुचितदेशनिवेशः । जात- यः, आयुधानामवान्तरभेदाः । कर्माण्यपरिमेयानि राज्ञो भृगुकुलोद्वह । उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः ॥ उत्तमाधममध्येषु पुरुषेषु नियोजयेत् । नरकर्मविपर्यासाद्राजा नाशमवाप्नुयात् ॥ नरकर्मविपर्यासात्, उत्तमे कर्मण्यधमस्य अधमे कर्मण्युत्त- मस्य नियोजनात् । नियोगं पौरुषं भक्तिं श्रुतं शौर्यं कुलं नयम् । ज्ञात्वा वृत्तिर्विधातव्या पुरुषाणं महीक्षिता ॥ इति । शङ्खलिखितौ, न गृध्नुपरिवारः स्यात्कामं गृध्नो राजा प्रेयान्न हंसपरि- वारो न हंसो गृध्नुपरिवारः परिवाराद्धि दोषाः प्रादुर्भवन्ति तेऽलं विनाशाय तस्मात्पूर्वमेव तत्परिवारं लिखेत् श्रुतशीला- न्वयोपपन्नम् । इति । मनुः, अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् । आप्तानर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥ निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान्दक्षान् प्रकुर्वीत विचक्षणान् ॥ इति । शङ्खलिखितौ, सर्वेषां राजकुलरक्षणं कोशपरिपालनं गोब्राह्मणपरित्राणं साम्परायिकं क्रियासाधारणत्वादनुजीविनां विशेषेण चारप्रति- चारौ मन्त्रप्रणिधयश्च सर्पाः तत्प्रयोजनत्वात्प्रत्यक्षा वृत्तिस्तस्य २४