वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 169, कुल 490 में से
संदर्भ में पढ़ेंपराजितदशम्यां पूर्वाह्ने विजयमुहूर्त्ते उक्तं प्रास्थानिकम् । एतानि खलु प्राग्द्वाराणि इत्यादि “स्वस्तिदा ये ते पन्थान”इ- त्यादि नक्षत्रहोमश्च अथ श्रवणे नक्षत्रे अथ राज्ञामिन्द्रमहस्येति व्याख्यातः । अथ पौर्णमास्यामपराह्ने पूर्णमासिकं कर्म्म । अथापामार्गत्रयोदश्यां श्वेते मुहूर्त्ते स्नानं कृत्वा अपामार्गं त्रिः परिभ्रामयेद्राज्ञ उपरि मन्त्रेण, “ईशानां त्वा भेषजानाम्” इति त्रिभिः सूक्तैः “प्रतीचीनफल” इति सूक्तेन वा पुनः स्नानम् । तत आरात्रिकं परिधत्तेतिद्वाभ्यामितिसमानम् । अथ दीपोत्सवं प्रतिपदि हस्त्यश्वादिदीक्षादिसमानमभ्यातानान्तं कृत्वा “येस्यां प्राची दिक्”इति “मानो देवा” “यस्ते सर्प” इत्येतैः सूक्तैः तृणानि युगतद्वाना सम्पातवन्ते गवां च प्रातितमिमधानाश्ने हस्त्यश्वादियुगपत्तन्त्रं समानं धेनुर्दक्षिणा । अथाक्षयनवम्यां रात्रौ हस्त्यश्वादीनामनीकानां रथस्य परहोमश्च । अथ वि- ष्णुद्वादश्यां पुरोहितः पश्चिमां सन्ध्यामुपास्य गृहीतदर्भो यत्र राजानमभिगम्य पौष्टिकहोमश्च रात्रौ नीराजनं कृत्वा हस्त्य- श्वेभ्यश्च । अथ कार्त्तिक्यां पौर्णमास्यां रेवत्यामाश्वयुज्यां वृषोत्सर्गः। अथाग्रहायणीपौर्णमास्यां तन्त्रं कृत्वा पादाग्रेतिद्वाभ्यां रसं सम्पात्याभिमन्त्र्य राजानं प्राशयेत् । अथ पौष्यां पौर्ण- मास्यामुक्तः पुष्याभिषेकः । अथ फाल्गुन्यां पौर्णमास्यां रात्रौ होलिका । महानवम्यामुक्तप्रज्वलनं नीराजनं वा । अथ ग्री- ष्मप्रतिपद्यायुष्मते स्नानं कृत्वाऽपां सूक्तैराप्लुत्य प्रदक्षिणमा- वृत्याऽप उपस्पृशेदित्युक्तम् । अथ चैत्र्यां पौर्णमास्यां तेजोव्रतं त्रिरात्रमश्नातीत्युक्तम् । अथ मदनत्रयोदश्यां वैशाख्यां पौर्ण- मास्यां मध्याह्ने गर्ते वाप्यां पुष्करिण्यां घटे वा सर्वगन्धान् प्र- क्षिप्य प्राक्तन्त्रमभ्यातानान्तं कृत्वा “सिंहे व्याघ्रे” “यशोहविः”