वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 168, कुल 490 में से
संदर्भ में पढ़ें१७२ वीरमित्रोदयस्य राजनीतिप्रकाशे तेन वारणान् वारयेत्। दन्ताग्रेषु तृणानि कृत्वा “यथा हव्यं वहसि ग्रससि तं जातवेदसम्"इत्यग्निं प्रज्वालयेत्। “सुजातं जात- वेदसम्" इति वाचयेद् “यथा हव्यम्" इति नीराजयित्वा। “निधिं बिभ्रति" इति शालां प्रवेशयेदनपेक्षमाणाः स्वानि स्थानानि व्रजन्ति दीर्घायुषो बलवन्तश्च भवन्ति । गोसहस्रं कर्त्रे दक्षिणा ग्रामवरं च । ‘निधिं बिभ्रति बहुधा गुहासु' इतिसूक्तं पठित्वा शालां प्रवेशयेत् । इति हस्त्यश्वदीक्षा समाप्ता । परिशिष्टद्वयम्— अथ वर्षशतं प्रवर्द्धमानो राजानमभिवर्द्धयिष्यन् संवत्सरे जन्मदिने कुर्यात् । तन्त्रमित्युक्तं,“पुनन्तु मा वायोः पूतो वैश्वा- नरो रश्मिः” इति । पवित्रैः पुण्याहादीनि च मङ्गलैर्यजमानं च सम्प्रोक्ष्य “यदा बध्नन्” इति पुष्पाद्यलङ्कारमावर्ज्जयित्वा मा- हेन्द्रं चरुं श्रपयेत् । लोकपालेभ्यश्च द्वितीयं चरुं श्रपयेत् । “महां इन्द्रो य ओजसा” इति द्वयौ हुत्वा इन्द्राय स्वाहेत्या- दिलोकपालांश्चेष्ट्वा राजानमन्वालभ्य आदिवज्जुहुयात् “अर्वा- ञ्चमिन्द्रः सुत्रामेममिन्द्र वर्द्धय क्षत्रियं मे शतं जीवन्तु शरद” इति । “रक्षन्तु त्वाग्नय” इति चतसृभी रक्षां कृत्वा रोचनया अलङ्कुर्यात् । त्रिगुणेन सूत्रेण बद्ध्वा “मानायीतन्तुम्” इति सूक्तेन रक्षासूत्रं सम्पातं च कृत्वा “धाता ते ग्रन्थिम्” इति बध्नाति । उत्तरं तन्त्रं हिरण्यं दक्षिणा ॥ १ ॥ महानवम्यां हस्त्यश्वदीक्षा प्रतिपत्प्रभृति नवरात्रं शस्त्रसत्त्वसम्पातः । तृतीयायां हस्त्यश्वानां कर्म्म,सप्तम्यां हस्त्यश्वानां दर्शनम्, अष्टम्यामथ पिष्टमयीमित्या- दि,नवम्यां दुर्गापूजनम् अथ नवम्यामित्यादि नवम्याम् । अथा-