वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 17, कुल 490 में से
संदर्भ में पढ़ेंराजशब्दार्थविचारः । ११ इत्यत्र पूर्वपक्षे लिखितम्— राज्यस्य कर्त्ता राजेति सर्वलोकेषु गीयते । महाविषयता चैवं शास्त्रस्यापि भविष्यति ॥ तस्माद्ब्राह्मणादयो राज्यं कुर्वाणा राजान इति । राज्यं तु जनपदपरिपालनम् । लोकप्रयोग एव शब्दार्थावधारणे प्रमा- णम् । लोके च ब्राह्मणादिषु राज्यकर्त्तृषु राजशब्दो वर्त्तते । यास्कोऽपि, राजा राजतेरिति ब्रुवन् यौगिकं राजशब्दमी- श्वरवचनमेवाभ्युपैति । राजनोत्कर्षश्च प्रजापरिपालनादिरेव । वेदेऽपि, “सोमोऽस्माकं ब्राह्मणानां राजा” “यो राजा वर्षणीनां” “सोमो वै राजा गन्धर्वेषु” इत्यादावपि ईश्वरवचन एव राजशब्दः प्रतीयते । कोषेऽपि, राजा तु प्रणताशेषसामन्तः स्यात् । तथा, अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ इति । अत्र यदि राजन्यशब्दवद्राजशब्दोऽपि क्षत्रियवचन एव स्यात्तदा राजकं राजन्यकं च क्षत्रियगणे इत्येव ब्रूयान्नतु नृ- पतिगणे इति पृथगुपाददीत । तस्माद्राजशब्दो नृपतीनां वाचक इति केचित् । अपरे त्वाहुः । राजशब्दः क्षत्रियजातिवचनः । मन्वादयो हि राजधर्मान् प्रवक्ष्यामीत्युपक्रम्य जनपदपरिपालनरूपं राज्यं क्षत्रियस्यैव स्मरन्ति । तत्र— मनुः, ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।