भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 18, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 18

१२ वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥ ब्रह्म वेदस्तत्कृतः श्रवणाध्ययनजन्यो ग्रहणावबोधलक्षणः संस्कारो ब्राह्मः । यद्वा ब्रह्म वेदस्तत्प्राप्त्यर्थ उपनयनादिः संस्कारो ब्राह्मः । यथाविधि यथाशास्त्रम् । एतच्च प्राप्तेनेत्यने- नान्वितम् । यथान्यायं वक्ष्यमाणदण्डप्रणयनशास्त्रमनतिक्रम्ये- त्यर्थः । परिरक्षणं दुर्बलानां बलवद्भिरनभिभवः । अनेन क्ष- त्रिय एव मुख्यो राज्याधिकारीति दर्शितम् । अत एव क्षत्रि- यस्य क्षितिरक्षाजीवनार्थं शस्त्रास्त्रभृत्त्वं चोक्तम्— मार्कण्डेयपुराणे, दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा । धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवोऽस्य जीविका ॥ जीविका कराद्यादानद्वारा । तथा याज्ञवल्क्यः, प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । इति । प्रधानं धर्मार्थं वृत्त्यर्थं च । पाणिनिरपि, राज्ञः कर्मणिष्यञं विदधाति-“गुणवचन- ब्राह्मणादिभ्यः कर्मणि च” इति “पत्यन्तपुरोहितादिभ्यो यक्” इति यकं वा । तेन राज्ञः क्षत्रियस्य कर्म राज्यमिति मन्वाद्ये- कवाक्यत्वात्सिद्धं भवति । तथा, “राजश्वशुराद्यत्” “राज्ञोऽपत्ये जातौ” इति सूत्र- वार्त्तिकाभ्यां राजशब्दः क्षत्रियवचनोऽवसीयते । तन्निष्पन्नराज- न्यशब्दस्य क्षत्रियपर्यायेषु पाठात् । जातिश्चेह क्षत्रियजातिर्गृह्यते राज्ञः क्षत्रियापत्ये यत्, स च जातिग्रहणात् वैश्यापत्ये निवार्यते । तथा, “राजानमभिषेचयेत्” इत्यत्राभिषेकोऽपि क्षत्रियस्यैव विज्ञायते। दृष्टं हि राजत्वमुद्दिश्याभिषेको विधीयते। तेन राजानं