वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 19, कुल 490 में से
संदर्भ में पढ़ेंराजशब्दार्थविचारः । १३ सन्तमभिषेकेण संस्कुर्यात् । न त्वदृष्टं यूपत्वं “यूपं तक्षति” इ- त्यत्र यथा विधीयते तक्षणेन यूपं कुर्यादिति तद्वत् अभिषेकेण राजानं कुर्यादिति । यूपशब्दस्यालौकिकत्वात् । राजशब्दस्य तु क्षत्रियवचनत्वेन प्रसिद्धत्वात् । राजधर्मानित्युपक्रम्य- क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् । क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा ॥ वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम् । क्षत्रियाय ददौ राज्यम्- इत्याद्युपसंहारस्वरसाच्च क्षत्रियजातावेव राजशब्दः। अत एव- अनेकार्थकोषोऽपि, राजा शशाङ्के क्षत्रिये नृपे । इति । राज्यकर्त्तरि च वर्णान्तरे लाक्षणिकः। ननु ब्राह्मणस्य कथं राज्यकर्तृत्वम् ? । उच्यते । अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स त्वस्य प्रत्यनन्तरः ॥ इति मनुवचनात् । वस्तुतस्त्वभिषेकादिगुणयुक्तस्य वक्ष्य- माणधर्माः । तथा च- मत्स्यपुराणे, मत्स्यं प्रति मनुरुवाच । राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत् । एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ इति । अत्र मात्रपदेन तमपा च अभिषेकानन्तरमेव प्रजापालनं तदङ्गसम्पत्तिश्च सम्पादनीयेति गम्यते । तदुक्तम्- तत्रैव अभिषेकार्द्रशिरसा राज्ञा राज्यावलोकिना ।