वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 191, कुल 490 में से
संदर्भ में पढ़ेंराज्ञोऽनुजीविवृत्तम् । १९५ उपजीवी भवेद्राज्ञो विषये वापि यो वसेत् । अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत यः ॥ न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम् । श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत् ॥ विशेषयेच्च राजानं योग्यभूमिषु सर्वदा । विशेषयेत्, राजानमधिकं स्वात्मानं च ततो न्यूनं कुर्यात् । अम्लानो बलवाञ्छूरश्छायेवानुगतः सदा ॥ सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् । अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ॥ अहं किं करवाणीति स राजवसतिं वसेत् । आन्तरे चैव बाह्ये च राज्ञा यथाथ सर्वदा ॥ आदिष्टो नैव कम्पेत स राजवसतिं वसेत् । यो वै गृहेभ्यः प्रवसन् प्रियाणां नानुसंस्मरेत् ॥ दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत् । समवेष न कुर्वीत नोच्चैः सन्निहितो वसेत् ॥ न मन्त्रं बहुधा कुर्यादेवं राज्ञः प्रियो भवेत् । न कर्मणि नियुक्तः सन् धनं किञ्चिदपि स्पृशेत् ॥ प्राप्नोति हि हरन्द्रव्यं वेधनं यदि वा वधम् । पानं वस्त्रमलङ्कारं यच्चान्यत्सम्प्रयच्छति ॥ तदेव धारयेन्नित्यमेवं प्रियतरो भवेत् । इति । इत्यनुजीविवृत्तम् । इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजि- तचरणकमल— श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज-