भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 190, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 190

१९४ वीरमित्रोदयस्य राजनीतिप्रकाशे नित्यं हि प्रतिषिद्धं तु पुरस्तादासनं महत् ॥ न च सन्दर्शने किञ्चिदबद्धमपि सञ्जपेत् । अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम् ॥ न मृषाभिहितं राज्ञा मनुष्येषु प्रकाशयेत् । असूयन्ति हि राजानो नराननृतवादिनः ॥ तथैव चावमन्यन्ते नरान् पण्डितमानिनः । शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः ॥ प्रियमेवाचरन् राज्ञः प्रियो भवति भोगवान् । ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः ॥ अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च । यस्य कोपो महाबाधः प्रसादश्च महाफलः ॥ कस्तस्य मनसापीच्छेददनर्थं प्राज्ञसम्मतः । न चोष्ठौ न भुजौ जातु न च वाक्यं समाक्षिपेत् ॥ सदा वातं च वाचं च ष्ठीवनं वाऽऽचरेच्छनैः । हास्यवस्तुषु चान्येषु वर्त्तमानेषु केषु चित् ॥ नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत् । न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्ततः ॥ स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम् । लाभेन हर्षयेद्यस्तु न व्यथेद्योऽवमानितः ॥ असंमूढश्च यो नित्यं स राजवसतिं वसेत् । राजानं राजपुत्रं वा संवर्णयति यः सदा ॥ अमात्यः पण्डितो भूत्वा स चिरं तिष्ठते प्रियः । प्रगृहीतश्च योऽमात्यो निगृहीतस्त्वकारणैः ॥ न निर्वदति राजानं लभते सम्पदं पुनः । प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः ॥

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 190, कुल 490 में से · BharatKosha