वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 193, कुल 490 में से
संदर्भ में पढ़ेंराज्ञो निवासयोग्यदेशः । १९७ अथ राज्ञो निवासयोग्यदेशविचारः । तत्र मनुः, जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ इति । जाङ्गलदेशलक्षणमन्यत्राभिहितम्— अल्पोदकतृणो यस्तु प्रवातः प्रचुरातपः । स ज्ञेयो जाङ्गलो देश इति देशविदो विदुः ॥ इति । स्मृत्यन्तरेऽपि, स्वल्पवृक्षोदकपर्वतो बहुपक्षिमृगः प्रचुरवर्षातपश्च जाङ्गलो- देश इति । इदं च स्वल्पोदकादिविशेषणं देशस्य परैरनाक्रमणीयत्वा- र्थम् । राजधान्यां तु बहुजलादिमत्त्वं तत्प्रकरणे वक्ष्यते । सस्यैः, वार्षिकशारदहैमन्तिकवासन्तिकैरव्यवहितोत्पत्तिकैर्धान्यैः सम्पूर्णम् । आर्यप्रायं, प्रचुरधार्मिकजनम् । अनाविलं, सर्प- व्याघ्रादिभिरनाकुलम् । रम्यं मनोरमम् । आनतसामन्तं, दानमानादिना प्रणततत्तद्भूमिपालम् । स्वाजीव्यं, सुलभकृषि- वाणिज्यादिलोकजीवनोपायम् । देशमावसेदित्यत्र "उपान्व- ध्याङ्वस” इत्याधारे द्वितीया । तथा— याज्ञवल्क्यः, रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् । इति । पशव्यं, पशुभ्यो हितम् । आजीव्यं, समन्तादुपजीव्यौषधि- तृणकाष्ठादियुक्तम् । मत्स्यपुराणेऽपि,