वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 194, कुल 490 में से
संदर्भ में पढ़ें१९८ वीरमित्रोदयस्य राजनीतिप्रकाशे मत्स्य उवाच । राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् । रम्यमानतसामन्तं मध्यमं देशमावसेत् ॥ इति । प्रभूतं प्रचुरं यवसं तृणम् इन्धनं च यस्मिंस्तादृशम् । मध्यमं स्वपालनीयदेशमध्यस्थम् । वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः । किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ अनाहार्यं, परैर्ग्रहीतुमशक्यम् । ब्राह्मणबाहुल्ये सहवासा- दिना राजकीयभ्यस्तेषां पीडा स्यादित्यतः किञ्चिद्ब्राह्मण- संयुक्तमिति । अदेवमातृकं रम्यमनुरक्तजनावृतम् । करैरपीडितं चापि बहुपुष्पफलं तथा ॥ अदेवमातृकं, नदीमातृकम्।नद्यम्बुसम्पन्नव्रीहिपालितमित्यर्थः। अगम्यं परचक्राणां तद्वासगृहमापदि । समदुःखसुखं राज्ञः सततं प्रियमास्थितम् ॥ सरीसृपविहीनं च व्यालतस्करवर्जितम् । एवंविधं यथालाभं राजा विषयमावसेत् ॥ इति । विषयो देशः । आपदि, शत्रोर्विपत्काले । तेषां परचक्राणां वासगृहाणि यत्र तत्तथा । सरीसृपाः सर्पाः । व्याला व्याघ्राः । “यथालाभम्” “एवंविधम्” इत्यनेनैतत्प्रकरणोक्तकतिपयदेश- विशेषणराहित्येऽपि न क्षतिरिति दर्शितम् । विष्णुधर्मोत्तरेऽपि, राजा सहायसम्पन्नः पशव्यं जाङ्गलं शिवम् । वैश्यशूद्रजनप्रायमरोगं देशमावसेत् ॥ इति । इति राज्ञो निवासयोग्यदेशविचारः ।