वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 197, कुल 490 में से
संदर्भ में पढ़ेंदुर्गलक्षणम् । २०१ नराणामुपलक्षणत्वेन यथासम्भवं चतुरङ्गसेनासन्निवेशविशेषरूपं दुर्गम् । इदमेव च बलदुर्गम् । तदुक्तम्- औशनसे धनुर्वेदे, मौलं वश्यसुसन्तुष्टं शिक्षायुक्तं सनायकम् । भीमं चैवाप्रमत्तं च बलदुर्गं प्रशस्यते ॥ इति । मौलं परम्परागतयोधरूपम् । प्रशंसितमेतत्- महाभारते, दुर्गेषु च महाराज षट्सु ये शास्त्रनिश्चिताः । सर्वे दुर्गेषु शस्यन्ते नरदुर्गं सुदुस्तरम् ॥ इति । वार्क्षं, समन्ततो घनतरवृक्षरूपं दुर्गम् । तदुक्तम्- औशनसे धनुर्वेदे, अज्ञातमार्गं गहनं वृक्षगुल्मलतादिभिः । सकण्टकैर्वनं दुर्गं भूतये स्यात्सुविस्तृतम् ॥ इति । अम्बुदुर्गम्, समन्ततोऽगाधजलनद्यादिरूपं दुर्गम् । इदम- धिकृत्योक्तम्- औशनसे धनुर्वेदे, सङ्क्षिप्तेनैकमार्गेण सविषैस्तु जलेचरैः । सलिलैर्विषमं स्पर्शनखादनवधप्रियैः ॥ इति । स्पर्शनं खादनं वधश्च तत्प्रियैः । गिरिदुर्गं च द्विविधम् । समन्ततो दुर्गमपर्वतवेष्टितभूभागरूपं, दुर्गमसजलगिरिशिखर- रूपं च । तदुक्तम्- औशनसे धनुर्वेदे, दुरारोहं परैर्दूरं शरपातस्य गोचरात् । सर्वसम्पत्समायुक्तं दुर्गं स्यात्पार्वतं श्रिये ॥ इति । २६