वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 198, कुल 490 में से
संदर्भ में पढ़ें२०२ वीरमित्रोदयस्य राजनीतिप्रकाशे
सर्वेषां धान्यजलादीनां सम्पत् आधिक्यं तेन समायुक्तं यत्तादृशम् । एतान्येव षड्विधानि दुर्गाण्याह- मनुरपि, धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव च । नृदुर्गं गिरिदुर्गं च समाश्रित्य वसेत्पुरम् ॥ इति । तिर्यक्प्रभृतयोऽपि दुर्गमाश्रिता इत्यतो राज्ञा तदवश्यमा- श्रयणीयामित्यभिप्रेत्य- स एवाह, त्रीण्याद्यान्याश्रितास्तेषां मृगगर्ताश्रया झषाः । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ त्रीण्याद्यानि, आद्यानि त्रीणि दुर्गाणि । तत्र मरुभूमिरूपं मृगा आश्रिताः, गर्ताश्रया मूषकादयः दुर्गममहीरूपम्, झषा मत्स्या अगाधजलरूपम्, प्लवङ्गमा वानरा वृक्षसमुदायरूपम्, नरा मनुष्या नरसमुदायरूपम् । एकाकिनो हि परैरभिभाव्यत्वं स्पष्टमेव । अमरा देवाः कैलासादिदुर्गमाश्रिता इत्यतो राज्ञाप्ये- षामन्यतमदुर्गमाश्रयणीयमित्यर्थः । यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ इति । दुर्गस्यावश्यविधेयत्वं तत्प्रकारविशेषं च- बृहस्पतिराह, आत्मदारार्थलोकानां सञ्चितानां तु गुप्तये । नृपतिः कारयेद्दुर्गं प्राकारद्वारसंयुतम् ॥ इति । मनुरपि, एकः शतं योधयति प्राकारस्थो धनुर्द्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ इति ।