वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 199, कुल 490 में से
संदर्भ में पढ़ेंदुर्गे पुरनिर्माणम् । २०३ तेषां षण्णामपि दुर्गाणां मध्ये गिरिदुर्गस्य प्राशस्त्यमुक्तम्- मत्स्यपुराणे, सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते । इति । मनावपि, सर्वेषां तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ इति । बाहुगुण्येन बहुतरगुणवत्त्वेन । ते च गुणा दुरारोहत्वादयः प्रत्यक्षसिद्धा एव । तेषु च यथासम्भवं परिखादि कार्य- मित्युकम्— मत्स्यपुराणे, दुर्गं च परिखोपेतं प्राकाराट्टाळसंयुतम् । शतघ्नीयन्त्रमुखैश्च शतशश्च समावृतम् ॥ इति । इति दुर्गम् । अथ पुरनिर्माणम् । तत्र मत्स्यपुराणे, गोपुरं सकपाटं तु तत्र स्यात्सुमनोहरम् । तत्र, दुर्गे । गोपुरं, पुरद्वारम् । तत्प्रमाणं तु— तत्रैव, सपताकगजारूढो येन राजा विशेत्पुरम् । इति । विशेषान्तरमप्युक्तम्- तत्रैव, चतस्रश्च तथा तत्र कार्यास्त्वायतवीथयः । एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ वीथ्यग्रे च द्वितीये च राजवेश्म विधीयते ।