भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 211, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 211

दुर्गे पुरनिर्माणप्रकारः । २१६ रक्ष्या देव्यस्सदैवात्र पूजनीयास्स्वभागगाः ॥ स्थानानि कल्पयेत्तासामधिवासं तु कारयेत् । चण्डेश्वरो, महादेवस्य गणविशेषः । अधिवासं, स्थापनम् । इति पुरभूशुद्धिः । तथा तत्रैव, नगरं दैवतावीतं समस्तप्रकृतीयुतम् । सप्तपञ्चपुरैः कार्यं मण्डपैरुपशोभितम् ॥ कोष्ठकाः सश्रियः कार्या मण्डपादग्रतः शुभाः । एवं देवालयोपेतं सर्ववर्णसमन्वितम् ॥ नवदुर्गासमायुक्तं नगरं परिकीर्तितम् । पुरं हट्टसमायुक्तं देवतादिसमाकुलम् ॥ हट्टं हेममणीवस्त्रपत्रोर्णाचर्मविक्रयम् । सुरापेयादिकं यस्मिंस्तत्पुरं पत्तनं शृणु ॥ असंहतं समं कार्यं वणिक्हट्टं सुशोभनम् । सुरनामं स्वनामं वा पत्तनं सर्वकामदम् ॥ अवेधं कारयेत्पङ्कगर्त्तादिभिः सुरोत्तम । उभयोरन्तरे कार्यं देवतायतनादिकम् ॥ देवलक्ष्माविहीनं तु समदृष्टिगतं शुभम् । चिह्नदृष्टिगते देवे न दृष्टेः सुनिरूपणम् ॥ समे मानसमायुक्ते कार्या दृष्टिः शुभा समा । द्रुमाधिका न कर्तव्या व्यालासिंहादिनावृता ॥ एवं कुर्यात्पुरे हट्टं प्राकारान्तर्गतं शुभम् । चतुर्हट्टं समं कार्यं समसूत्रं सुशोभनम् ॥ पथस्समं पुरं कार्यं सममार्गविनिर्गमम् । चतुष्पथानि शुद्धानि नित्यं पूजायुतानि च ॥