वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 216, कुल 490 में से
संदर्भ में पढ़ें२२० वीरमित्रोदयस्य राजनीतिप्रकाशे आषाढे भृत्यरत्नानि पशुवर्गमवाप्नुयात् । श्रावणे मित्रलाभं तु हानिं भाद्रपदे तथा ॥ पत्नीनाशमाश्वयुजे कार्त्तिके धनधान्यकम् । मार्गशीर्षे तथा भक्तं पौषे तस्करतो भयम् ॥ लाभं च बहुशो विन्द्यादग्निं माघे विनिर्दिशेत् । फाल्गुने काञ्चनं पुत्रानिति कालफलं स्मृतम् ॥ अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् । ऐन्दवं मृगशिरः । स्वाती हस्तोऽनुराधा च गृहारम्भे प्रशस्यते ॥ आदित्यभौमवर्जं च सर्वे वाराः शुभावहाः । वज्रव्याघातशूलेषु व्यतीपातातिगण्डयोः ॥ विष्कम्भगण्डपरिघवज्रयोगेषु कारयेत् ॥ श्वेते मैत्रेऽथ माहेन्द्रे गान्धर्वाभिजिति रौहिणे । तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥ चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् । शुभनिरीक्षितं, शुभग्रहानेरीक्षितम् । स्तम्भोच्छ्रायादि कर्तव्यमन्यत्तु परिवर्जयेत् । प्रासादेष्वेवमेवं स्यात्कूपवापीषु चैव हि ॥ पूर्वं भूमिं परीक्षेत पश्चाद्वास्तुं प्रकल्पयेत् । श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्वशः ॥ विप्रादेः शस्यते भूमिरतः कार्यं परीक्षणम् । विप्राणां मधुरास्वादा कषाया क्षत्रियस्य तु ॥ कषायकटुका तद्वद्वैश्यशूद्रेषु शस्यते । रनिमात्रे तु वै गर्त्ते स्वनुलिप्ते च सर्वशः ॥ घृतमामशरावस्थं कृत्वा वर्त्तितुष्टयम् ।