भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 215, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 215

वास्तुकर्मविधिः । २१९ न विष्णुः पश्चिमे सौम्ये वायव्यां कारयेच्छिवाम् ॥ कृते विनश्यते कर्त्ता तत्स्थानं चोद्वसं भवेत् । देवो न पूज्यते तत्र तस्मिन् स्थाने स्वके शुभे ॥ विमूत्रेषु प्रवक्ष्यामि येन शान्तिः शुभं भवेत् । नगराणां पुराणां च देवानां गोपुरादिषु ॥ विमार्गेषु शिवः शस्तः सम्मुखः........ । सौम्याग्रे सर्वतो दुर्गा पुरं नन्दति रक्षितम् ॥ तस्माद्दुर्गा प्रकर्त्तव्या नगरेषु पुरादिषु । महालक्ष्म्यादिकाः शक्र क्षेमकारी सचण्डिका ॥ मङ्गला मङ्गला रूपा महिषघ्नी शिवा नरा । यथास्थानविभागस्था सर्वलोकसुखावहा ॥ महालक्ष्मीः पुरः शस्ता आग्नेये महिषापहा । याम्यां शिवा शुभा प्रोक्ता चर्चिका पश्चिमे पुरात् ॥ उत्तरे शुभदा क्षेमा पञ्चैताः शान्तिदाः पुरे । नगरे नव कर्त्तव्या दुर्गे पञ्चैव चण्डिकाः ॥ इति । इति दुर्गे पुरनिर्माणम् । अथ निर्मितेषु नगरराजगृहादिषु वास्तुशान्तेरावश्यकत्वेन वास्तुकर्मविधिनिरूप्यते । तत्र— मत्स्यपुराणे, सूत उवाच । अथातः सम्प्रवक्ष्यामि गृहकालविनिर्णयम् । यथाकालं शुभं ज्ञात्वा तदा भवनमारभेत् ॥ चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः । वैशाखे धेनुरत्नानि ज्येष्ठे मृत्युं तथैव च ॥

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 215, कुल 490 में से · BharatKosha