वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 218, कुल 490 में से
संदर्भ में पढ़ें२२२ वीरमित्रोदयस्य राजनीतिप्रकाशे पूषाथ वितथश्चैव गृहक्षतयमावुभौ । गन्धर्वो भृङ्गराजश्च मृगः पितृगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः । असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ॥ भल्लाटः सोमसर्पौ च अदितिश्च दितिस्तथा । बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु ॥ ईशानादिचतुष्कोणे संस्थितान् पूजयेद्बुधः । आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥ मध्ये नवपदे ब्रह्मा तस्याष्टौ च समीपगाः । सर्वानेकान्तरान् विद्यात्पूर्वाद्यान् नामतः शृणु ॥ अर्यमा सविता चैव विवस्वान् विबुधाधिपः । मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात् ॥ अष्टमस्त्वापवत्सस्तु परितो ब्रह्मणः स्मृताः । आपश्चैवापवत्सश्च पर्जन्योऽग्निर्दितिस्तथा ॥ पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः । तन्मध्ये तु वहिर्वत्स द्विपदास्ते तु सर्वतः ॥ अर्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा । ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्वतः ॥ अंशानिदानीं वक्ष्यामि रज्जूनपि पृथक् पृथक् । वायुं यावत्तथा रोगान् पितृभ्यः शिखिनं पुनः ॥ मुख्याद्भृगुं तथा शेषाद्वितथं यावदेव तु । सुग्रीवाददितिं यावत् भृङ्गात्पर्जन्यमेव च ॥ एते वंशाः समाख्याताः कचिद्रज्जव एव तु । एतेषां यस्तु सम्पातः पदं मध्यं समं तथा ॥ मर्म चैतत्समाख्यातं त्रिशूलं कोणगं च यत् ।