वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 249, कुल 490 में से
संदर्भ में पढ़ेंसप्ताङ्गेषु राष्ट्रम् । २७३ स एव, सम्यङ्गनिविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः । कण्टकोद्धरणे नित्यमातिष्ठेद्बलमुत्तमम् ॥ इति । कण्टकाः, दुष्टसामन्तादयः । मनुरपि, यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ निर्दाता, प्ररूढक्षेत्रमध्यस्थिततृणादिलविता । कक्षं, तृणम् । राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ इति । याज्ञवल्क्योऽपि, चाटतस्करदुर्वृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्माच्च नृपतेरर्द्धं यस्माद्गृह्णात्यसौ करान् ॥ इति । मत्स्यपुराणेऽपि, यथा न स्यात्कृशीभावः प्रजानामनवेक्षया । तथा राज्ञा विधातव्यं स्वराज्यं परिरक्षता ॥ मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ॥ भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् । तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत् ॥ यो राष्ट्रमनुगृह्णाति राष्ट्रं स्वं परिरक्षति । सञ्जातमुपजीवेत्तु विन्दते स महत्फलम् ॥ १ राज्ञो हि इति मुद्रितमनुपुस्तके पाठः ।