वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 250, कुल 490 में से
संदर्भ में पढ़ें२५४ वीरमित्रोदयस्य राजनीतिप्रकाशे दुह्याद्धिरण्यं धान्यं च महीं राजा सुरक्षिता । इति । मनुरपि, मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते स्वाम्याज्जीविताच्च सबान्धवः ॥ शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ इति । याज्ञवल्क्योऽपि, अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिरक्षति । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञां श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति । कात्यायनोऽपि, यत्र कर्माणि नृपतिः स्वयं पश्यति धर्मतः । तत्र साधुसमाचारा निवसेयुः सुखं प्रजाः ॥ इति । मनुः, रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ यदधीते यद्यजते यज्जुहोति यदर्च्चति । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ इति । कात्यायनः, प्रजानां रक्षणं नित्यं कण्टकानां च शोधनम् । द्विजानां पूजनं चैव एतदर्थं कृतो नृपः ॥ इति । वृहस्पतिः, तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः । परचक्राच्चौरभयाद्बलिनोऽन्यायवर्त्तिनः ॥