वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 251, कुल 490 में से
संदर्भ में पढ़ेंसप्ताङ्गेषु राष्ट्रम् । २५६ परानीकस्तेनभयमुपायैः शमयेन्नृप । बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥ इति । मनुः, सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ योऽरक्षन्बलिमादत्ते करं शुल्कं च पार्थिवः । प्रतिभोगं च दण्डं च स सद्यो नरकं व्रजेत् ॥ अरक्षितारं राजानं बलिषड्भागहारिणम् । तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ अनवेक्षितमर्यादं नास्तिकं विप्रलोपकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ यो¹ हत्वा गोसहस्राणि नृपो दद्यादरक्षिता । स शब्दमात्रफलभाद्राजा भवति तस्करः ॥ विप्रलोपकं, विप्रवृत्त्युच्छेदकर्तारम् । अत्तारं, भोक्तारम् । शङ्खः, न व्रतैर्नोपवासेन न च यज्ञैः पृथग्विधैः । राजा स्वर्गमवाप्नोति प्राप्नोति परिपालनात् ॥ इति । यमः, वानप्रस्थाः परिव्राजः श्रोत्रियाश्चाहिताग्नयः । षड्भागस्य प्रदातारो नैते राज्ञो हिरण्यदाः ॥ इति । षड्भागस्य, स्वकृतस्य श्रेयस इतिशेषः । विष्णुधर्मोत्तरे, प्रजासुखं तु कर्त्तव्यं सुखमुद्दिश्य चात्मनः । किं यज्ञैस्तपसा तस्य प्रजा यस्य सुरक्षिता ॥ १ अयं श्लोको मुद्रितमनौ नोपलभ्यते ।