वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 252, कुल 490 में से
संदर्भ में पढ़ें२५६ वीरमित्रोदयस्य राजनीतिप्रकाशे सुरक्षिता प्रजा यस्य स्वर्गस्तस्य गृहोपमः । अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरम् ॥ राम षड्भागमादत्ते सुकृताद्दुष्कृतादपि । धर्मभागं महाभाग सम्यग्रक्षणतत्परः ॥ अरक्षिता तथा सर्वं पापमाप्नोति भार्गव । न वै किञ्चिदवाप्नोति पुण्यभाक् पृथिवीपतिः ॥ आपन्नमपि धर्मिष्ठं प्रजा रक्षन्त्यथाऽऽपदि । तस्माद्धर्मार्थकामेन प्रजा रक्ष्या महीभृता ॥ सुभगाचाटदुर्वृत्तराजवल्लभतस्करैः । भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश्च विशेषतः ॥ सुभगा, अतिप्रिया स्त्री, वेश्या वा । चाटाः, बहुभाषिणः रक्षिता तद्भयेभ्यस्तु राज्ञा भवति सा प्रजा । अरक्षिता सा भवति तेषामेव हि भाजनम् ॥ साधुसंरक्षणार्थाय राजा दुष्टनिबर्हणम् ॥ तृणानामपि निर्माता सदा कुर्याज्जितेन्द्रियः । शास्त्रोक्तं बलिमादद्याद्धर्म्यं तत्तस्य जीवितम् ॥ इति । विष्णुः, प्रजासुखैः सुखी राजा तद्दुःखैश्च दुःखितः । स कीर्तियुक्तो लोकेऽस्मिन् प्रेत्य स्वर्गे महीयते ॥ इति स्वराष्ट्रसंरक्षणवत्परराष्ट्रग्रहणे फलमाह— याज्ञवल्क्यः, य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति । वशीकृतपरराष्ट्रविषये— स एव विशेषमाह,