वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 253, कुल 490 में से
संदर्भ में पढ़ेंसप्ताङ्गेषु कोशः । २५७ यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति । इति राष्ट्रम् । अथ कोशः । तत्र विष्णुधर्मोत्तरे, रिपुघातसमर्थः स्याद्वित्तवानेव पार्थिवः । परचक्रमर्देषु वित्तवान्नैव मुह्यति ॥ वित्तवानेव सहते सुदीर्घमपि विग्रहम् । बहुदण्डानपि परांस्तथा भिन्द्याद्धनाधिकः ॥ बहुदण्डान्, बहु दण्डयन्ति ते तथाविधास्तान्, दण्डार्जितब- हुतरकोशान् । अत्र दण्डस्य बहुत्वं स्मृत्युक्तदण्डापेक्षया आ- धिक्यं, तेनान्यायार्जितधनान् जयतीतिव्याख्येयम् । तेन धना- धिको बहुतरधनवान् न्यूनधनान् जयतीत्येतदर्थकं वचनमनर्थ- कं न भवति । वस्तुतस्तु दण्डो बलमिति यथाश्रुतमेव सम्यक् । अन्नप्राणाः प्रजाः सर्वा धने तच्च प्रतिष्ठितम् । धनवान् धर्ममाप्नोति धनवान् काममश्नुते ॥ यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः । यस्यार्थः स पुमांल्लोके यस्यार्थः स च पण्डितः ॥ अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः । विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ विशेषो नास्ति लोकेषु पतितस्याधनस्य च । पतिता न तु गृह्णन्ति दरिद्रो न प्रयच्छति ॥ इत्यतो नानुगृह्णन्ति दरिद्रं पतितं जनाः । धनहीनस्य भार्यापि नैव स्याद्वशवर्त्तिनी ॥ ३३