वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 257, कुल 490 में से
संदर्भ में पढ़ेंसप्ताङ्गेषु कोशः । २६१
स एव, मांसमधुघृतौषधिगन्धपुष्पमूलफलरसशाकपत्राजिनमृद्भा- ण्डाश्मवैदलेभ्यः षाष्ठभागम् । इति । रसदारुपत्रेति क्वचित्पाठः । वैदलानि, विदलीकृतवंशानि- र्मितानि शूर्पादीनि । दारूणि, काष्ठानि । षष्ठ एव षाष्ठस्तम् । अयं च भागः संवत्सरे संवत्सरे ग्राह्यः । तथा च- विष्णुधर्मोत्तरे, गन्धौषधिरसानां च पुष्पमूलफलस्य च । पत्रशाकतृणानां च वत्सरेण च चर्मणाम् ॥ बैणवानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ षड्भागमेव चादद्यादिति । अयं तु विना द्रव्यव्ययेन कायक्लेशादिना निष्पादितानां मांसादीनामेकप्रकरणपठितानां, कर्षकैस्तुल्यन्यायत्वात् । द्रव्य- व्ययेन क्रीतानां तु षष्टितमो भागो ग्राह्यः । तथा च- गौतमः, पण्य इत्यनुवर्त्तमाने । मूलफलपुष्पौषधमधु- मांसतृणेन्धनादीनां षाष्ठमिति । अत्र हरदत्तः । षाष्ठः, षष्टितमो भागो विक्रेत्रा राज्ञे देय इति । यदि पण्यशब्दो द्रव्यव्ययेनार्जितेऽन्यथा वार्जिते रूढ इत्याग्रहस्तथापि विरोधादित्थमेव व्यवस्था युक्ता । यत्तु मनु- नोक्तम्- आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ पत्रशाकतृणानां च चर्मणां वैणवस्य च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ इति । द्रुः, वृक्षः । मांसं, छागादेः । मधु, क्षौद्रम्। सर्पिः, घृतम्। गन्धा-