वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 258, कुल 490 में से
संदर्भ में पढ़ेंश्चन्दनादयः । ओषध्यो, गुडूच्यादयः । रसा, लवणादयः । पु- ष्पाणि, चम्पकादीनि । मूलानि, हरिद्रादीनि । पत्राणि, ताडीप- त्रादीनि । तत्तु पूर्वोक्तोदाहृतविष्णुधर्मोत्तरोक्तसमानार्थम्। क्वचित्तु गौतमवाक्ये षाष्ठमितिपदं षष्ट एव षाष्ठ इति व्याख्याय मनुवा- क्यविरोधेन हरदत्तव्याख्यां दूषयन्ति । तत्तु पूर्वोक्तव्यवस्था- सम्भवेनाभियुक्तव्याख्यादूषणस्य कर्तुमशक्यत्वादयुक्तम् । धा- न्यविषये- मनुराह, धान्यानामष्टमो भागः षष्ठो द्वादश एव च । अष्टमः षष्ठो द्वादश इति विकल्पो भूम्युत्कर्षापकर्षक्लेशला- घवगौरवापेक्षया द्रष्टव्यः । धान्यानां, व्रीहियवादीनाम् । अयं च भागः कर्षकेभ्य एव ग्राह्यः । तथा च- गौतमः, राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा । इति । विष्णुस्तु षष्ठांशमेवाह- प्रजाभ्योबल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यादिति । इदं तूत्कृष्टभूमिविषयम् । अत्र धान्यपदं व्रीहिपरम् । सर्वसस्ये- भ्यश्चेति पृथगन्यसस्यग्रहणात् । सस्यं व्रीह्यतिरिक्तमन्नजातम् । इयं भूम्युत्कर्षादिना व्यवस्था जीर्णानाम् । वस्तुतस्तु धान्यवि- शेषेणेयं व्यवस्था । तथा च- विष्णुधर्मोत्तरे, शूकधान्येषु षड्भागं शिम्बीधान्येष्वथाष्टमम् । राजा बल्यर्थमादद्याद्देशकालानुरूपतः ॥ इति । शूकशिम्ब्यतिरिक्ते धान्ये मनुगौतमोक्तो द्वादशो दशमो वा भागः । तथा च-