वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
श्चन्दनादयः । ओषध्यो, गुडूच्यादयः । रसा, लवणादयः । पु- ष्पाणि, चम्पकादीनि । मूलानि, हरिद्रादीनि । पत्राणि, ताडीप- त्रादीनि । तत्तु पूर्वोक्तोदाहृतविष्णुधर्मोत्तरोक्तसमानार्थम्। क्वचित्तु गौतमवाक्ये षाष्ठमितिपदं षष्ट एव षाष्ठ इति व्याख्याय मनुवा- क्यविरोधेन हरदत्तव्याख्यां दूषयन्ति । तत्तु पूर्वोक्तव्यवस्था- सम्भवेनाभियुक्तव्याख्यादूषणस्य कर्तुमशक्यत्वादयुक्तम् । धा- न्यविषये- मनुराह, धान्यानामष्टमो भागः षष्ठो द्वादश एव च । अष्टमः षष्ठो द्वादश इति विकल्पो भूम्युत्कर्षापकर्षक्लेशला- घवगौरवापेक्षया द्रष्टव्यः । धान्यानां, व्रीहियवादीनाम् । अयं च भागः कर्षकेभ्य एव ग्राह्यः । तथा च- गौतमः, राज्ञो बलिदानं कर्षकैर्दशममष्टमं षष्ठं वा । इति । विष्णुस्तु षष्ठांशमेवाह- प्रजाभ्योबल्यर्थं संवत्सरेण धान्यतः षष्ठमंशमादद्यादिति । इदं तूत्कृष्टभूमिविषयम् । अत्र धान्यपदं व्रीहिपरम् । सर्वसस्ये- भ्यश्चेति पृथगन्यसस्यग्रहणात् । सस्यं व्रीह्यतिरिक्तमन्नजातम् । इयं भूम्युत्कर्षादिना व्यवस्था जीर्णानाम् । वस्तुतस्तु धान्यवि- शेषेणेयं व्यवस्था । तथा च- विष्णुधर्मोत्तरे, शूकधान्येषु षड्भागं शिम्बीधान्येष्वथाष्टमम् । राजा बल्यर्थमादद्याद्देशकालानुरूपतः ॥ इति । शूकशिम्ब्यतिरिक्ते धान्ये मनुगौतमोक्तो द्वादशो दशमो वा भागः । तथा च-
सप्ताङ्गेषु कोशः । २६३ बृहस्पतिः, दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् । खिलाद्वर्षावसन्ताच कृष्यमाणाद्यथाक्रमम् ॥ इति । अस्यार्थः । खिलात्, चिरकालमकर्षणेनानुत्पन्नसस्यात् । वर्षा- वसन्तात्, वर्षाकाले उत्पन्नात्, वसन्तकाले चोत्पन्नात् । कृष्यमा- णात्, प्रतिवर्षं कृष्यमाणात् । इदं च वर्षावसन्तादित्यनेनान्वितम् । अयमर्थः । खिलाद्यदुत्पन्नं तत्र दशममंशं, वर्षाकालोत्पन्नादष्टमं, वसन्तकालोत्पन्नात्षष्ठमंशमादद्यादिति । बृहस्पतिविष्णुधर्मो- त्तरयोरेकवाक्यतया शूकधान्यं यवगोधूमादि वसन्तोत्पन्नं तत्र षष्ठमंशमादद्यादित्यादि सिद्धम् । अत्र विशेषम्— स एवाह, देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् । एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥ भूतं, देशमर्यादया व्यवस्थापितम् । कीनाशानां, कर्षका- णाम् । आपदि एतदतिक्रमेऽपि न दोष इत्युक्तम्— मनुना, चतुर्थमाददानो हि क्षत्रियो भागमापदि । प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते ॥ इति । विशेषान्तरमप्याह— स एव, स्वधर्मो विजये तस्य नाहवे स्यात्पराङ्मुखः । शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद्बलिम् ॥ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । धर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥
२६४ वीरमित्रोदयस्य राजनीतिप्रकाशे दद्युरितिशेषः । यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम् । तथा वीक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥ इति पूर्वोदाहृतमनुवाक्ये करान् कल्पयेत्, लाभक्षती दृष्ट्वा न्यूनाधिकभावमपि कुर्यादित्युकम् । तत्र कचित्कचिद्गौतमेन वचनेनैव सा प्रतिपादितास्ति । सा यथा, विंशतिभागः शुल्कः पण्ये । इति । अस्यार्थः । वणिग्भिर्यच्चन्दनादि विक्रीयते तत्पण्यं, तस्य मूलाधिक्याया वृद्धेर्विंशतितमो भागो राज्ञे देयः । तस्य दीयमा- नस्य शुल्कसंज्ञा । अयं च विंशतितमो भागः परदेशपण्ये, स्व- देशण्ये तु दशमोंऽशः । तथा च- विष्णुः, स्वदेशपण्याच्च शुल्कांशं दशममादद्यात् । इति । यत्स्वदेशे क्रीत्वा स्वदेश एव विक्रीयते, तस्मात् लाभ- द्रव्यदशांशम्, परदेशपण्याच्च विंशतितमम् । यत्पण्यं देशा- न्तरे क्रीत्वा देशान्तरे विक्रीयते तस्माद्विंशतितमम् । अत्रापि लाभस्यैव । यत्तु, मनौ- शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्युर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ इति मूलसहितस्य विंशांशः प्रतीयते । तथाप्यर्थे कृते मूलाधिकस्यैव विंशांशो ग्राह्यः । मूलद्रव्यांशग्रहणे तु वाणिजां लाभो न स्यात्, तदभावे च वाणिजां व्यवहारोच्छेद एव स्यात् । विष्णुधर्मोत्तरे तु- स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज । इति स्वदेशपण्येऽपि विंशतितमो भाग उक्तः, स तु क्लेश-
३. तृतीय प्रकाश: दूत-कर्म, गुप्तचर, सन्धिविग्रह, मित्र-अरि मण्डल एवं युद्ध-धर्म
परदेशपण्ये शुल्कं, प्रनष्टाधिगते विशेषश्च । २६५ बाहुल्यविषयः, तेषामापद्विषयो वा । अस्मिन्नेव विषये पर- देशपण्येऽपि- तत्रैवोक्तम्, शुल्कांशं परदेशाच्च निबोध गदतो मम । क्षयव्ययप्रवासांश्च यथाऽऽयासं द्विजोत्तम ॥ व्ययशुल्कप्रवासादि लङ्घयित्वा तथा द्विज । विंशांशं भागमादद्युर्दण्डनीया अतोऽन्यथा ॥ इति । सामुद्रपण्यशुल्के तु विशेष उक्तः- सामुद्रः शुल्को वरं रूपमुद्धृत्य दशपणं स्मृतमन्येषामपि सारानुरूपमुद्धृत्य धर्म्यं प्रकल्पयेदिति । वरं, बहुमूल्यं मुक्तादिष्वेकमुद्धृत्य धनस्वामिने दत्त्वा- ऽवशिष्टस्य दशांशं गृह्णीयात् । अन्येषां सांयात्रिकातिरिक्ताना- मपि सारभूतमेकमुद्धृत्य धर्म्यं यथोचितं शुल्कं प्रकल्पयेत् । प्रनष्टाधिगते तु विशेषमाह— मनुः, आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥ इति । प्रनष्टं, स्वामिसकाशात् भ्रष्टं, यत् शौल्किकस्थानपाला- दिभिरधिगतं राज्ञे समर्पितं, तस्मान्नृपः प्रथमवर्षे स्वामिने सर्वं दद्यात्, द्वितीयवर्षे च तस्माद्द्वादशं, तृतीयवर्षे दशमं, चतुर्थवर्ष- प्रभृति षष्ठं भागमादद्यात् । तदुक्तम्— याज्ञवल्क्येन, शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥ इति । अत्र च “अर्वाक्संवत्सरात्स्वामी हरेत” इत्यनेन प्रथमवर्षे ३४
२६६ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वामिना सर्वमेव ग्राह्यम्, “हरेत परतो नृप” इत्यनेनाविशेषो- क्तावपि राजा द्वितीयवर्षादौ संरक्षणनिमित्तं किञ्चिद्गृह्णीयात् । तत्र चौचित्येन द्वितीयवर्षे द्वादशं, तृतीये दशमं, चतुर्थप्रभृति षष्ठं भागं गृह्णीयात् । अत एव- मनुना, प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् ॥ इति त्र्यब्दपर्यन्तं रक्षणं,स्वामिने दानं चोक्तम् । तदेव याज्ञ- वल्क्यैकवाक्यतया अर्वाक्संवत्सरात्स्वामिने दानं किमप्यगृ- हीत्वैव, परतस्तु कश्चिद्भागं गृहीत्वैवेति सिद्धम् । त्र्यब्दप- र्यन्तावस्थापनं तु यथास्थितद्रव्यस्यैव, परतो हरणं तु व्य- यीकरणानुमतिपरम् । स्वामिन्यागते तु तत्समसङ्ख्यं स्वांशं गृहीत्वा दातव्यम् । तत्रापि स्वांशमध्ये चतुर्थोऽशोऽधिगन्त्रे देयः । तदुक्तम्— गौतमेन, प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमू- र्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम् । इति । अत्र संवत्सरमित्युपलक्षणम् । “राजा त्र्यब्दं निधापयेत्” इति मनुस्मरणात् । निधौ तु विशेषमाह- याज्ञवल्क्यः, राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्द्धं द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ इति । भूमौ चिरनिखातं द्रव्यं निधिः, तं राजा लब्ध्वा अर्द्धं ब्राह्मणेभ्यो दद्यात्, अर्द्धं कोशे स्थापयेत् । तथा च-
निधिविषये विष्णुयाज्ञवल्क्योक्तयोर्व्यवस्थापनम् । २६७ विष्णुः, निधिं लब्ध्वा तदर्द्धं ब्राह्मणेभ्यो दद्यात्, द्वितीयमर्धं कोशे प्रवेशयेत् । इति । तच्छब्दात् यस्य स्वर्णादेरर्द्धीकरणं सम्भवति तस्यैवार्द्धं दद्यात्, न रत्नादेः, तस्य तु मूल्यकल्पनया दद्यात् इत्येवम- र्थः । तदुक्तम्— मनुना, निधीनां हि पुराणानां धातूनामेव च क्षितौ । अर्द्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ इति । “द्वितीयमर्द्धं कोशे प्रवेशयेत्” इति पृथक्सूत्रकरणं कोशे स्थापनविधानार्थं, स्वामिन्यागते तद्दानावश्यम्भावात् । द्विजो, ब्राह्मणः क्षत्रियो वैश्यश्च श्रुताध्ययनसम्पन्नः सदाचारो निधिं लब्ध्वा, तं राज्ञे निवेद्य सर्वं गृह्णीयात्। अविदुषामेतेषां विशेष उक्तो- विष्णुना, निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात, क्षत्रियश्चतुर्थमंशं रा- ज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्योऽर्द्धमादद्यात्, वैश्यस्तु चतुर्थमंशं राज्ञे दद्याद्ब्राह्मणेभ्योऽर्द्धं चतुर्थमंशमादद्यादिति । अत्र ब्राह्मण इति सामान्यवचनाद्योगीश्वरवाक्ये ब्राह्म- णांशे विद्वत्त्वमविवक्षितम् । इतरेण, शूद्रेण, लब्धे निधौ राजा तस्मै षष्ठमंशं दद्याच्छेषं गृह्णीयादिति व्याख्येयम् । अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठ- मंशं प्रदद्यात् — इति वसिष्ठस्मरणात्, निध्यधिगमो राजधनं न ब्राह्मणस्याभिरूपस्य, अब्राह्म- णोऽप्याख्याता षष्ठमंशं लभेतेत्येके— इति गौतमस्मरणाच्च । तथा च शूद्राय षष्ठं दत्त्वा शेषं
२६८ वीरमित्रोदयस्य राजनीतिप्रकाशे ग्राह्यमिति सिद्धम् । स्वयंगृहीतादर्द्धं ब्राह्मणेभ्यो दद्यादित्याह- विष्णुः, शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान् राज्ञे द- द्यात्पञ्चांशान् ब्राह्मणेभ्यो दत्त्वाऽवशिष्टमंशद्वयमादद्यादिति । इति विष्णुयाज्ञवल्क्यवाक्ययोर्व्यवस्थां केचिदाहुः । परे तु द्विजशब्दो ब्राह्मणवचनः, सामान्यशब्दस्य विशेषपरत्वात् । तच्च शक्त्या लक्षणया वेत्यन्यदेतत् । विष्णुवाक्यानुरोधाच्चात्र वि- द्वत्त्वमविवक्षितम् । एवमितरपदमपि शूद्रपरमेव । भवतामपि वासिष्ठवाक्ये यत्पदस्य गौतमवाक्ये चाब्राह्मणपदस्य विशेषपर- त्वावश्यकत्वात् । इत्थं च क्षत्रियवैश्ययोः साधारण्येन वि- ष्णूक्ता व्यवस्थेत्याहुः । यत्तु विज्ञानेश्वरेण द्विजपदं ब्राह्मणपरम्, इतरपदं चा- विद्वद्ब्राह्मणक्षत्रियादिपरमित्युक्तम् । तच्च विष्णुस्मृत्यदर्श- ननिबन्धनम् । विज्ञानेश्वरानुयायिनस्तु विज्ञानेश्वरव्याख्या- तत्तात्पर्यकयोगीश्वरविष्णुस्मृत्योर्विकल्पमाहुः, ते श्रद्धामन्द- धिय उपेक्ष्याः । अपरार्कस्तु इतरपदमविद्वद्ब्राह्मणपरमिति प्राह । तस्यायमाशयः । अविद्वद्ब्राह्मणपरं गोरक्षकादिब्राह्मणपरम्, तथा चैते षष्ठांशभागिन इत्यर्थः । गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ इति स्मरणात् । अत्र विप्रपदं नीचकर्मकर्तृक्षत्रियवैश्ययो- रप्युपलक्षकम् । इत्थं च विद्वत्क्षत्रियवैश्ययोर्विष्णूक्ता व्यवस्थे- ति । विज्ञानेश्वरोक्तमप्येवमर्थकत्वे साधु सङ्गच्छते इति दिक् । अनिवेदित इति कर्त्तरि निष्ठा । तथा चायमर्थः-यो निधिं लब्ध्वा राज्ञे न निवेदितवान्, राज्ञा च निध्यधिगन्तृत्वेन विज्ञातः, स तं निधिं दाप्यः शक्त्यपेक्षया दण्डं चेति । तथा च-
स्वामिना स्वत्वे विभाविते निधिः परावर्त्यः । २६९ विष्णुः, अनिवेदितविज्ञातस्य सर्वमपहरेदिति । अनुलोमजानां मूर्द्धावसिक्तादीनां क्षत्रियादिवन्निर्णयो मातृसमानधर्मत्वात् । प्रतिलोमजानां तु शूद्रवत् शूद्रसमानधर्म- त्वादिति । यदा निधेः स्वामी आगत्य रूपसङ्ख्यादिभिः स्वत्वं विभावयति तदा तस्मै निधिं दद्यात्, षष्ठं द्वादशं वांशं राजा गृह्णीयात् । यथाऽऽह— मनुः, ममायमिति यो ब्रूयान्निधिं सत्येन मानवः तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ इति । षष्ठं द्वादशं वा इति विकल्पस्तु धनस्वामिनः सगुणत्वनि- र्गुणत्वापेक्षया कालापेक्षया वा द्रष्टव्यः । इदं च भागग्रहणं ब्राह्मणभिन्नादेव । यथाऽऽह— विष्णुः, स्वनिहितात् ब्राह्मणवर्जं द्वादशमंशं दद्युरिति । केचित्तु विष्णुवाक्यात् क्षत्रियादयो द्वादशं, ब्राह्मणः षष्ठं दद्यादित्याहुः । तच्चिन्त्यम् । यदा राजा निधिस्वामिन्यागते निधिं परावृत्य दद्यात्तदा ब्राह्मणाय दत्तं निध्यर्द्धं परावृत्य गृह्णीयात् । यथाऽऽह— बृहस्पतिः, अस्वामिविक्रयं दानमाधिं च विनिवर्तयेदिति। परकीयं निधिं स्वीयमिति वदन् राज्ञा तन्निधिसमं दण्डनी- य इत्युक्तम्— विष्णुना, परनिहितमिति ब्रुवंस्तत्समं दण्डमावहेदिति । ब्रुवन्, स्वनिहितमिति ब्रुवन् इत्यर्थः । आकरेषु विशेषमाह— विष्णुः, आकरेभ्यः सर्वमादद्यात् । इति । आकराः, सुवर्णरत्नाद्युत्पत्तिस्थानानि । विष्णुधर्मोत्तरे,
२७० वीरमित्रोदयस्य राजनीतिप्रकाशे धात्वाकराणां सर्वेषां प्रभुरुक्तो महीपतिः । निधिं पुराणं सम्प्राप्य कोशेऽर्द्धं तु प्रवेशयेत् ॥ अर्द्धं ब्रह्मणसात्कुर्याद्धर्मकामो महीपतिः । इति । नदीतीरसमुद्रयोः शुल्कग्रहणमाह — मनुः, पणं यानतरे दाप्यः पौरुषेऽर्द्धपणं तरे । पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान् ॥ इति । “भाण्डपूर्णानि”इति अग्रे वक्ष्यति, तद्भिन्नविषयतास्य श्लो- कस्य। तेन रिक्तशकटादियानविषये तरणे पणं दाप्यः। एवं पु- रुषवाह्यो भारोऽर्द्धपणं दाप्यः । पशोः, गवादेः, योषितश्च पणचतुर्थांशः । भाररहितो मनुष्यः पणाष्टमभागं दाप्यः । तथा, भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित्पुमांश्चापरिच्छदाः ॥ इति । भाण्डपूर्णानि, पण्यद्रव्यपूर्णानि शकटादीनि, द्रव्यगतमू- ल्योत्कर्षापकर्षेण तार्यं दाप्यानि । रिक्तभाण्डानि, अपरिच्छदा दरिद्राश्च, पणपादार्धदानेऽप्यक्षमा यत्किञ्चिद्दाप्याः । एतच्च पारावारगमने । नदीमार्गेण तु दूरदेशगमने देशकालापेक्षया कल्पनीयम् । तदुक्तम्— तेनैव, दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ इति । समुद्रे इदं लक्षणम्, इयं पणादिदानव्यवस्था नास्ति, किन्तु तत्र यथाव्यवस्थमेव देयमित्यर्थः । राज्ञा कर्षकवाणिगादिभ्यः किमिति करो ग्राह्य इत्यपेक्षित आह—
करग्रहणस्यावश्यकत्वम् । २७१ कात्यायनः, भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा । तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ॥ भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्त्तितम् । तत्क्रियाबलिषड्भागं शुभाशुभनिमित्तजम् ॥ इति । अस्यार्थः। राजा, भुवः स्वामी स्मृतः । अन्यद्रव्यस्य, भू- मिसम्बद्धद्रव्यस्य, न स्वामी । अन्यथा, भूमिसाम्याभावे । भूता- नां, प्राणिनाम् । तन्निवासित्वात्, भूनिवासित्वात्। स्वामित्वं, राज्ञ इति शेषः । इत्यतः तत्क्रियाबलिषड्भागं प्राप्नुयात् । विष्णुरपि, राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् । इति । तथा च मनुः, पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ इति । यत्तु— अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ इति याज्ञवल्क्यस्मरणं, तदत्यन्तारक्षणविषयम् । तस्मात्क- रादानं दृष्टादृष्टार्थत्वेनावश्यकम् । तेनैव च राज्ञो वृत्तिः । तथाच- गौतमः, राज्ञोऽधिकं रक्षणं सर्वभूतानाम् । सर्वग्रहणादश्वत्थच्छेदाद्यपि परिहार्यम् । अधिकेन वृत्तिः । अधिकं रक्षणमित्युक्तं, तद्वारेण यदधिगतं करादिद्रव्यं तदधिकं, तेन वृत्तिः, पोष्यवर्गस्य हस्त्यश्वादीनां च पोषणम् । अनेन आपदोऽन्यत्र पूर्वसञ्चितेन न जीवेदित्युक्तम् । तथा च-
व्याघ्रः, कुटुम्बपोषणं कुर्यान्नित्यं कोशं च वर्द्धयेत् । आपदोऽन्यत्रे तं कोशं न गृह्णीयात्कदाचन ॥ इति । कचित्करग्रहणस्यापवादमाह— विष्णुः, ब्राह्मणेभ्यः करादानं न कुर्यात्, ते हि राज्ञो धर्मकराः । इति । ब्राह्मणेभ्यः, कर्षकेभ्यो व्यवहर्तृभ्यः श्रोत्रियेभ्यश्च। तथा च- मनुः, म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ इति । ते हि राज्ञो धर्मकराः, ते पूर्वोक्ता ब्राह्मणाः सम्यग्र- क्षिताः स्वधर्मषष्ठांशं ददतीत्यर्थः । मनुरपि, स रक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्धते तस्य द्रविणं राष्ट्रमेव च ॥ इति । विष्णुधर्मोत्तरेऽपि, न गृह्णीयादित्युपक्रम्य । ब्राह्मणेभ्यस्तथा करम् । तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥ इति । विशेषान्तरमाह— मनुः, अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । श्रोत्रियेषूपकुर्वंश्च न दाप्यः केन चित्करम् ॥ पीठसर्पी पङ्गुः । श्रोत्रियेषूपकुर्वन्, श्रोत्रियाणां धनधा- न्यादिदानेनोपकारकः । तथा, श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् ।
अकराग्राह्यातार्यादयः । २७३ महाकुलीनमार्यं च राजा सम्पूजयेत्सदा ॥ इति सम्पूजयेत्, स्वयंदानादिना पूजयेत् । अनेन तेभ्योऽपि न किञ्चिद्गृह्णीयादिति । आपस्तम्बः, अकरः श्रोत्रियः सर्ववर्णानां, स्त्रियः कुमारश्च प्राग्व्यञ्जनेभ्यो, ये च विद्यार्था वसन्ति, तपस्विनश्च ये धर्मपराः, शूद्रश्च पादावनेक्ता, अन्धबधिरमूका रोगाविष्टाश्च, ये वृथा द्रव्य- परिग्रहे । इति । व्यञ्जनानि, श्मश्रुप्रभृतीनि । वृथा द्रव्यपरिग्रहे, अर्थसङ्ग्रहे विगतप्रयोजनाः । विष्णुधर्मोत्तरे तरविषये विशेष उक्तः— दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा । स्त्रीणां प्रव्रजितानां च तरशुल्कं विवर्जयेत् ॥ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ इति । लिङ्गिनो ब्रह्मचारिणः । वणिजां तु विशेषमाह- गौतमः, पण्यं वणिग्भिरर्घापचयेन देयमिति । इदं शुल्कादधिकं मासिकं पण्यम् । तदुक्तम्- बृहस्पतिना, शुल्कं दद्युस्ततो मास एकैकं पण्यमेव च । अर्घावरं च मूल्येन वाणिजस्ते पृथक् पृथक् ॥ इति । शुल्कस्थानान्युक्तानि— विष्णुधर्मोत्तरे, दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु । तदतिक्रमे दोष उक्तः- तत्रैव, ३५
तदतिक्रामतो द्रव्यं राजगामि विधीयते । इति । तत्, शुल्कस्थानं हट्टघट्टादि । विष्णुनापि, शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् । इति । इदं राजयोग्यबहुमूल्यहस्त्यश्वादिविषयम् । राजप्रतिषि- द्धम्-'दुर्भिक्षे ऽन्नं देशान्तरे न नेयम्'इत्येतद्विषयं वा । यथोक्तम्- मनुना, राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ इति । तथाऽन्यत्र, शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ इति । शिल्प्यादिविषये मासिककरमाह- विष्णुः, शिल्पिनः कर्मोपजीविनश्च मासेनैकं कर्म कुर्युः । शिल्पिनो, लोहकारादयः । कर्मोपजीविनः, कारवो बर्द्ध- क्यादयः । चकारादन्योपजीविनः । मनुरपि, कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । एकैकं कारयेत्कर्म प्रतिमासं महीपतिः ॥ इति । एतेनैतेभ्योऽन्यत् न ग्राह्यम्, एष एवैषां शुल्कः । विशेषा- न्तरमाह- वसिष्ठः, नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो वा दद्युः प्रतिमासम् । इति । वनदाहो. दग्धं वनं तदुपजीविनः । तानेव ये उपजीवन्ति
शिल्प्यादिकरः, करादेरग्रहणेऽन्यायेन ग्रहणे च दोषः।२७५ सैव तेषां वृत्तिः । विशेषान्तरमाह-- गौतमः, एतेनात्मोपजीविनो व्याख्याता, नौचक्रिव- न्तश्च, भक्तं तेभ्योऽपि दद्यात् । इति । एतेन, प्रतिमासमेकाहकर्मकरणेन । आत्मोपजीविनः, भा- रवाहनटनर्त्तकादयः । नौचक्रिवन्तो, नौशकटव्यवहारिणः । भक्तं, दिवाभोजनपर्याप्तमन्नं शिल्प्यादिभ्यो देयम् । विष्णुधर्मोत्तरेऽपि, कर्म कुर्युर्नरेन्द्रस्य मासेनैकेन शिल्पिनः । भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ इति । करस्याग्रहणे दोषमाह- मनुः, नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन्नात्मनो मूलमात्मानं तांश्च नाशयेत् ॥ इति । करशुल्कादेरग्रहणमात्ममूलोच्छेदः । यथोचितादधिकग्र- हणं परमूलोच्छेदः । तथा, अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह विनश्यति ॥ स्वादानाद्वर्णसंसर्गाद्दुर्बलानां च रक्षणात् । बलं सञ्जायते राज्ञः स प्रेत्येह विवर्द्धते ॥ इति । स्वादानात्, स्वस्य न्यायागतस्य करादेरादानात् । वर्णसं- सर्गात्, वर्णानां ब्राह्मणादीनां स्वस्वजातीयैर्वर्णैः सह संस- र्गात् विवाहादिसम्बन्धात्, न तु वर्णान्तरेण संसर्गो येन
२७६ वीरमित्रोदयस्य राजनीतिप्रकाशे सङ्करादिदोषः स्यात् । अन्यायेन करग्रहणे दोषमाह- याज्ञवल्क्यः, अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत् । सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति । कात्यायनोऽपि, अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः । सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ इति । धर्म्यकरग्रहणे फलमुक्तम्— महाभारते, धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः । सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति ॥ इति । कात्यायनोऽप्याह, एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः । तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते ॥ इति । इति कोशः । अथ दण्डः । दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्त्या दण्डशब्दो बलव- चनः । तत्र- महाभारते, प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः । प्रकाशोऽष्टविधस्तत्र गुह्यश्च बलवत्तरः ॥ रथा नागा हयाश्चैव पादाताश्चैव भारत । विष्टिर्नाविचराश्चैव दैशिका इति चाष्टमः ॥ अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।
सप्ताङ्गेषु दण्डमित्रे । २७७ स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति । विष्टिः, बलात्कारेणाकृष्टः कर्मकरः । दैशिका, देशे भवाः पुरुषाः । इति दण्डः । अथ मित्रम् । याज्ञवल्क्यः, हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ इति । मनुः, हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिकषमम् ॥ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति । अस्य त्रैविध्यमुक्तम्- मत्स्यपुराणे, पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः । कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥ तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः । सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः । अत एव विष्णु- धर्मोत्तरे-“अमित्रं च तथा रिपोः” इति पाठः । आहृतः, कृ- त्रिमः । इममेव प्रशंसति- व्यासः, न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः । सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति । महाभारते,
२७८ वीरमित्रोदयस्य राजनीतिप्रकाशे वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः । एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥ यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति । स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥ नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम् । अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा ॥ मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये । शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः ॥ इति । याज्ञवल्क्यः, स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते ॥ इति । मनुः, स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः समस्ता राष्ट्रमुच्यते ॥ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥ व्यसनं, व्यसनकारणम् । दोषवदिति शेषः । सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥ अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते । तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ॥ येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते । इति । इति मित्रम् । अथोपायाः । तत्र याज्ञवल्क्यः, उपायाः साम दानं च भेदो दण्डस्तथैव च ।
उपायेषु साम । २७९ सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ इति । तत्र द्वयोर्मुख्यत्वमाह- मनुः, सामादीनामुपायानां चतुर्णामपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये ॥ इति । तत्र साम । तच्च शत्रोस्तदीयानाममात्यादीनां च गुणवर्णनम् उपकारा- दिस्मरणं च विधाय स्वस्य कृतज्ञताख्यापनपुरःसरं स्वा- पराधक्षमापणम् । तदुक्तम्- मत्स्यपुराणे, मनुरुवाच । उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते । लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम ॥ मत्स्य उवाच । साम भेदस्तथा दानं दण्डश्च मनुजेश्वर । उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥ प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु । द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥ तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते । तत्र साधुः प्रयत्नेन सामसाध्यो मरोत्तम ॥ महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः । सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥ तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम् । तथा तदुपकाराणां कृतानां चैव वर्णनम् ॥ अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् ।
२८० वीरमित्रोदयस्य राजनीतिप्रकाशे एवं सान्त्वेन कर्त्तव्या वशगा धर्मतत्पराः ॥ साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः । तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥ गृह्णन्ति, वशीकुर्वन्ति । अतिशङ्कमित्येवं पुरुषं सामवादिनम् । असाधवोऽवजानन्ति तस्मान्नत्तेषु वर्जयेत् ॥ अतिशङ्कम्, अतिशयिता शङ्का यस्मिन् तादृशम् । सा- मवादिनं, सामप्रयोक्तारम् । ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः। ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन् ॥इति। अग्निपुराणे, चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनम् । मिथःसम्बन्धकथनं मृदुपूर्वं च भाषणम् ॥ आयतेर्दर्शनं वाचा तत्राहमिति चार्पणम् । इति । इति साम । अथ भेदः । स च शत्रुवर्गे परस्परं वैमत्योत्पादनम् । तदुक्तम्— मत्स्यपुराणे, मत्स्य उवाच । परस्परं तु ये द्विष्टाः क्रुद्धा भीतावमानिताः । तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥ ये तु येनैव दोषेण परस्मात्नाम बिभ्यति । ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥ आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् । १ आत्मीयं दर्शयेद्दोषम् इति मात्स्ये पाठः ।
उपायेषु भेदः । २८१ एवं हि भेदयेद्भिन्नान् यथावद्वशमानयेत् ॥ संहता हि विना भेदं शक्रेणापि सुदुःसहाः । भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥ स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च । परीक्ष्य साधुं मन्येत भेदं परमुखाच्छ्रुतम् ॥ सद्यः स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः । भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥ अन्तःकोपोबहिःकोपौ यत्र स्यातां महीक्षिताम् । अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥ सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः । महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ॥ अमात्यमन्त्रिणां चैव राजपुत्रे तथैव च । अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥ बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः । शुद्धान्तस्तु महाभाग शीघ्रमेव जयी भवेत् ॥ शुद्धान्तः, अन्तःप्रकोपरहितः । अपि शक्रसमो राजा अन्तःकोपेन नश्यति । सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीक्षिता ॥ परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा । ज्ञातीनां भेदनं कार्यं परेषां विजिगीषुणा ॥ रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथाऽऽत्मनः । ज्ञातयः परितप्यन्ते सततं परितापिताः ॥ तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा । ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥ न ज्ञातिमनुगृह्णन्ति नाज्ञातिं विश्वसन्ति च । ३६