वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 270, कुल 490 में से
संदर्भ में पढ़ेंतदतिक्रामतो द्रव्यं राजगामि विधीयते । इति । तत्, शुल्कस्थानं हट्टघट्टादि । विष्णुनापि, शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् । इति । इदं राजयोग्यबहुमूल्यहस्त्यश्वादिविषयम् । राजप्रतिषि- द्धम्-'दुर्भिक्षे ऽन्नं देशान्तरे न नेयम्'इत्येतद्विषयं वा । यथोक्तम्- मनुना, राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ इति । तथाऽन्यत्र, शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ इति । शिल्प्यादिविषये मासिककरमाह- विष्णुः, शिल्पिनः कर्मोपजीविनश्च मासेनैकं कर्म कुर्युः । शिल्पिनो, लोहकारादयः । कर्मोपजीविनः, कारवो बर्द्ध- क्यादयः । चकारादन्योपजीविनः । मनुरपि, कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । एकैकं कारयेत्कर्म प्रतिमासं महीपतिः ॥ इति । एतेनैतेभ्योऽन्यत् न ग्राह्यम्, एष एवैषां शुल्कः । विशेषा- न्तरमाह- वसिष्ठः, नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो वा दद्युः प्रतिमासम् । इति । वनदाहो. दग्धं वनं तदुपजीविनः । तानेव ये उपजीवन्ति