वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 268, कुल 490 में से
संदर्भ में पढ़ेंव्याघ्रः, कुटुम्बपोषणं कुर्यान्नित्यं कोशं च वर्द्धयेत् । आपदोऽन्यत्रे तं कोशं न गृह्णीयात्कदाचन ॥ इति । कचित्करग्रहणस्यापवादमाह— विष्णुः, ब्राह्मणेभ्यः करादानं न कुर्यात्, ते हि राज्ञो धर्मकराः । इति । ब्राह्मणेभ्यः, कर्षकेभ्यो व्यवहर्तृभ्यः श्रोत्रियेभ्यश्च। तथा च- मनुः, म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ इति । ते हि राज्ञो धर्मकराः, ते पूर्वोक्ता ब्राह्मणाः सम्यग्र- क्षिताः स्वधर्मषष्ठांशं ददतीत्यर्थः । मनुरपि, स रक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । तेनायुर्वर्धते तस्य द्रविणं राष्ट्रमेव च ॥ इति । विष्णुधर्मोत्तरेऽपि, न गृह्णीयादित्युपक्रम्य । ब्राह्मणेभ्यस्तथा करम् । तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥ इति । विशेषान्तरमाह— मनुः, अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । श्रोत्रियेषूपकुर्वंश्च न दाप्यः केन चित्करम् ॥ पीठसर्पी पङ्गुः । श्रोत्रियेषूपकुर्वन्, श्रोत्रियाणां धनधा- न्यादिदानेनोपकारकः । तथा, श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् ।