वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 281, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु दण्डः । २८५ बलान् हिंसित्वा तद्धनादिकं भक्षयेयुरित्यर्थः । मात्स्येऽपि, वानप्रस्थांश्च धर्मज्ञान्निर्ममान्निष्परिग्रहान् ॥ स्वदेशे परदेशे वा धर्मशास्त्रविशारदान् । समीक्ष्य प्रणयेद्दण्डं सर्वं दण्डे प्रतिष्ठितम् ॥ आश्रमी यदि वा वर्णी पूज्यो वाऽथ गुरुर्महान् । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चाप्यदण्डयन् । इह राज्यात्परिभ्रष्टो नरकं च प्रपद्यते ॥ तस्माद्राज्ञा विनीतेन धर्मशास्त्रानुसारतः । दण्डप्रणयनं कार्यं लोकानुग्रहकाम्यया ॥ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ बालवृद्धातुरयतिद्विजस्त्रीविधवाबलाः । अबलाः, बलरहिताः । मात्स्यन्यायेन भक्षयेरन् यदि दण्डं न पातयेत् ॥ देवदैत्योरगनराः सर्वे भूतपतत्रिणः ॥ उत्क्रामेयुश्च मर्यादां यदि दण्डो न पालयेत् । एष ब्रह्माभिशापेषु सर्वप्रहरणेषु च ॥ सर्वविक्रमकोषेषु व्यवसाये च तिष्ठति । पूज्यन्ते दण्डिनो देवा न पूज्यन्ते त्वदण्डिनः ॥ न ब्राह्मणं विधातारं न पूषार्यमणावपि । यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु ॥ रुद्रमग्निं च शक्रं च सूर्याचन्द्रमसौ तथा । विष्णुं देवगणांश्चान्यान् दण्डिनः पूजयन्ति च ॥ इति ।