वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 282, कुल 490 में से
संदर्भ में पढ़ें२८६ वीरमित्रोदयस्य राजनीतिप्रकाशे मनुरपि, सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ स्वभावाच्छुचिर्नरो दुर्लभः, किन्तु दण्डेनैव जितः पथि स्थाप्यते। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ भोगाय कल्पन्ते, स्वपथप्रवृत्ता भवन्ति । तथा च- श्रुतिः, भयात्सूर्यः प्रतपति भयात्तपति चन्द्रमाः । भयादग्निश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ इति । मनुः, दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति । दुष्येयुरिति । नीचवर्णा उत्तमवर्णस्त्रीगमनेन सङ्करं प्रा- प्नुयुरित्यर्थः । अत एव शास्त्रोक्तमर्यादा भिद्येरन् । मत्स्यपुराणे, दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ राजदण्डभयादेव पापाः पापं न कुर्वते ॥ यमदण्डभयादेके परस्परभयादपि । एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् । यस्माद्दण्डो दमयति अदण्ड्यान् दण्डयत्यपि ॥ दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः । दण्डस्य भीतैस्त्रिदशैस्समेतै —