वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 285, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु दण्डः । २८९ दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः । कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥ दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः । जले मत्स्यानिवाभक्ष्यन्दुर्बलान् बलवत्तराः ॥ सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः । पश्याग्नयश्च प्रतिशाम्यभीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति॥ अन्धन्तम इवेदं स्यान्न प्रज्ञायेत किञ्चन । दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः । तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः । दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्त्तते ॥ चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च । दण्डो विधात्रा विहितो धर्मार्थौ चानुरक्षितुम् ॥ यदि दण्डान्न लभ्येयुर्वयांसि श्वापदानि च । अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ अद्युः, भक्षयेयुः । न ब्रह्मचर्य्यधीयीत कल्याणीं१ न दुहेत२ गाम् । न कन्योद्वहनं गच्छेदयदि दण्डो न पालयेत् ॥ चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः । न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ विष्वग्लोपः प्रवर्त्तेत भिद्येरन्सर्वसेतवः । ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ १ अपत्यवतीम् । २ लोक इति शेषः । ३७