वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 286, कुल 490 में से
संदर्भ में पढ़ें२९० वीरमित्रोदयस्य राजनीतिप्रकाशे न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥ न प्रेष्या वचनं कुर्युर्न बाला जातु कस्य चित् । न तिष्ठेद्युवती धर्मे यदि दण्डो न पालयेत् ॥ दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः । दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥ न तत्र कूटं पापं वा वञ्चना वापि दृश्यते । यत्र दण्डः सुविहितश्चरते रिपुबाधनः ॥ हविः श्वापि लिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् । हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥ अर्थे सर्वे समारम्भाः समायत्ता न संशयः । स च दण्डसमायत्तः पश्य दण्डस्य गौरवम् ॥ इति । स च दुर्वृत्तेषु निपात्य इत्याह— याज्ञवल्क्यः, तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसन्धेन कृतिना सुसहायेन धीमता ॥ नेतुं, प्रणेतुम् । न्यायतः, यथाशास्त्रम् । सत्यसन्धेन, सत्य- प्रतिज्ञेन । यथाशास्त्रं प्रयुक्तः सन्न्सदेवासुरमानुषम् । जगदानन्दयेत्सर्वमन्यथा तु प्रकोपयेत् ॥ अधर्मदण्डनं स्वर्गकीर्त्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्त्तिजयावहम् ॥ अपि भ्राता सुतोऽर्च्यो वा श्वशुरो मातुलॊऽपि वा ।