वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 287, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु दण्डः । २९१ नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ अर्घ्यः, पूज्यः । यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्याच्छुतिभिस्तेन समाप्तवरदक्षिणैः ॥ इति सञ्चिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ कुलानि जातीः श्रेणीश्च गणान् जनपदानपि । स्वधर्माच्चलितात्राजा विनीय स्थापयेत्पथि ॥ इति । कुलानि, कुटुम्बादीनि । जातीः, ब्राह्मणादीन् । श्रेणीः, सुवर्णकारादेः। गणान्,मठब्राह्मणादीन् । जनपदान्, राष्ट्राणि । दण्ड्यश्च द्विविधः-विहिताननुष्ठाता निषिद्धानुष्ठाता च । तदाह- नारदः, यो यो वर्णोऽपहीयेत यथोद्रेकमनुव्रजेत् । तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि ॥ अशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु । प्रसमीक्ष्यात्मना राजा दण्डं दण्ड्येषु पातयेत् ॥ इति । अपहीयेत,स्वधर्माच्च्युतो भवेदित्यर्थः। उद्रेको,निषिद्धं कर्म। मनुरपि, पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ इति । एतच्च मातापित्रादिव्यतिरेकेण । “अदण्ड्यौ मातापितरौ स्नातकपुरोहितपरिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते- हि धर्माधिकारिण” इति विज्ञानेश्वरलिखितस्मृतेः । मातापितृत्व- द्वहुश्रुतोऽपि न दण्ड्यः । “स एष बहुश्रुतो भवति” इत्युपक्रम्य- “षड्भिः परिहार्यो राज्ञा अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहि-