वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 291, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु दण्डः । २९५ अशीत्यधिकसहस्रसङ्ख्याकाः पणा उत्तमसाहसाख्यो दण्डः, चत्वारिंशदधिकपञ्चशतसङ्ख्यपणात्मको मध्यमसाहसाख्यः, सप्त- त्यधिकशतद्वयसङ्ख्याकपणात्मकोऽधमसाहसाख्यः । स एव च शास्त्रान्तरे प्रथमसाहसाख्य इत्युच्यते । यत्तूक्तम्— मनुना, पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ इति, तदल्पापराधविषयम् । धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । योज्या व्यस्ताः समस्ता वाप्यपराधवशादिमे ॥ धिग्दण्डो, धिक्त्वां कापुरुषमित्यादिः । वाग्दण्डः, सर्वस्वं ते हरामि, त्वां देशान्निर्वासयामीति परुषभाषणम् । ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा । वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ क्वचिद्देशे स्वल्पेनैव शीतेनाऽऽतपेन वा स्वल्पकालेन भोजन- निवारणेनाधिका पीडा भवति, क्वचिच्च महतापि न तावती । तथा काले शरदादौ, तथा दण्डनीयबलं विदित्वा ताडनादिदण्डो वि- धेयः । तथा वयःकर्मवित्तानि । वयः, अशीत्यादि वार्द्धकं, प्रागुप- नयनादि शैशवं च । कर्माग्निहोत्रादि । वित्तं प्रसिद्धम् । क्वचि- त्क्वचिद्वाचनिका एव दण्डविशेषा उक्ताः— विष्णुधर्मोत्तरे, उत्साहमन्त्रशक्तिभ्यां प्रभुशक्तिश्च दैविकी । चतस्रः शक्तयस्तस्य वैष्णव्यः परिकीर्त्तिताः ॥ कः समर्थः प्रजाः पातुं विना वैष्णवतेजसा । सर्वदेवमयस्यैवं वारुणे पृथिवीपतेः ॥