वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 294, कुल 490 में से
संदर्भ में पढ़ें२९८ वीरमित्रोदयस्य राजनीतिप्रकाशे मूलं, मूलद्रव्यम् । अवध्य, अहिंसयित्वा, न्यूनमकृत्वेत्य- र्थः । वृद्धेस्तु सर्वथा लोप एव । वस्त्रादौ तु तथा मूलच्छेदे धर्मो न हीयते । सुवर्णरूप्यादावाधीकृते तद्भोगे मूलच्छेदं विना वृद्धौ च लोप इत्युक्तं, वस्त्रादावाधीकृते तद्भोगे मूलच्छेदे कृतेऽपि राज्ञो धर्मो न हीयत इत्यर्थः । यो निक्षेपं वञ्चयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा द्विगुणं दमम् ॥ उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ उपधाभिः, छलादिभिः । यो याचितकमादाय न तद्द्याद्यथाक्रमम् । स निगृह्य बलाद्दाप्यो दण्डं वै पूर्वसाहसम् ॥ अज्ञानाद्यः पुमान् कुर्यात्परद्रव्यस्य विक्रयम् । निर्दोषो ज्ञानपूर्वं तु चौरवद्वधमर्हति ॥ मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति । दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महीक्षिता ॥ द्विजभोज्ये तु सम्प्राप्ते प्रातिवेश्यमभोजयन् । हिरण्यमाषकं दण्ड्यः पापे नास्ति व्यतिक्रमः ॥ पापे, कृतपापे प्रातिवेश्ये सति, अभोजयितुरिति शेषः । व्यतिक्रमो दण्डो नास्ति । आमन्त्रितो द्विजो यस्तु वर्त्तमानः प्रतिग्रहे । निष्कारणं न गच्छेद्यः स दाप्योऽष्टशतं दमम् ॥ प्रतिग्रहे वर्त्तमानः, प्रतिग्रहपरिग्रहभोजनादिकं कुर्वन् । प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।