वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 296, कुल 490 में से
संदर्भ में पढ़ें३०० वीरमित्रोदयस्य राजनीतिप्रकाशे स तु दण्ड्यः शतं राज्ञा सुवर्णं चाप्यरक्षिता । दण्डं दत्त्वा न विरमेत्स्वामिभिः कृतलक्षणः ॥ बद्धः कार्ष्णायसैः पाशैस्तस्य कर्मकरो भवेत् । धनुःशतपरीमाणां ग्रामस्य तु समन्ततः ॥ द्विगुणां त्रिगुणां वापि नगरस्य तु कल्पयेत् । वृत्तिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत् ॥ छिद्रं निवारयेत्सर्वं श्वसूकरमुखानुगम् । तत्राप्यनावृतं धान्यं विहिंस्युः पशवो यदि ॥ न तत्र कारयेद्दण्डं नृपतिः पशुरक्षिणाम् । अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ॥ अनिर्दशाहाम्, प्रसवोत्तरमनतिक्रान्तदशरात्राम् । सपालान् वा विपालान् वा नदण्ड्यान् मनुरब्रवीत् अतोऽन्यथा विनष्टस्य दशांशं दण्डमर्हति । वैराद्दशगुणं दण्डं विनाशात् क्षेत्रियस्य तु ॥ गृहं तडागमारामं क्षेत्रं वा ज्ञानतो हरन् । शतानि पञ्च दण्ड्यः स्यादाज्ञानाद्द्विशतो दमः ॥ सीमाबन्धनकाले तु सीमाबन्धनकारिणाम् । तेषां संज्ञां ददानस्तु जिह्वाच्छेदनमाप्नुयात् ॥ अनर्थेनापि यो भिन्द्यात्संविदं वा विगच्छति । उत्तमं साहसं दण्ड्यमिति स्वायम्भुवोऽब्रवीत् ॥ स्थापितां चापि मर्यादां ये भिन्द्युः पापकारिणः । सर्वे पृथक् पृथक् दण्ड्या राज्ञा प्रथमसाहसम् ॥ मर्यादां, सीमामर्यादाम् । शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्यश्च द्विशतं राम शूद्रश्च वधमर्हति ॥